मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् ११

संहिता

नि त्वा॑ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता॑रमृ॒त्विज॑म् ।
म॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसं जी॒रं दू॒तमम॑र्त्यम् ॥

पदपाठः

नि । त्वा॒ । य॒ज्ञस्य॑ । साध॑नम् । अग्ने॑ । होता॑रम् । ऋ॒त्विज॑म् ।
म॒नु॒ष्वत् । दे॒व॒ । धी॒म॒हि॒ । प्रऽचे॑तसम् । जी॒रम् । दू॒तम् । अम॑र्त्यम् ॥

सायणभाष्यम्

हे अग्ने देव मनुष्वत् यथा मनुर्यागदेशे निदधाति तद्वद्वयं त्वां नि धीमहि । अत्र स्थापयामः । कीदृशम् । यज्ञस्य साधनं यज्ञनिष्पादकं होतारमृत्विजं ऋतौ वसंतादिके यष्थारं प्रचेतसं प्रकृष्टाज्ञानयुक्तं जीरं शत्रूणां वयोहानिकरं दूतं देवानां दूतस्थानीयं आमर्त्यं मरणरहितम् । मनुष्वत् । औणादिकोऽसिप्रत्ययांतो मनस् शब्दः । तेन तुल्यं क्रिया चेद्वतिः (पा ५-१-११५) इति वतिप्रत्ययः । अयस्मयादित्वेन भत्वाद्रुत्वाद्यभावः । धीमहि । डुधाञ् धारणपोषणयोः । लिङ्यभ्यासलोपश्छांदसः । जीरम् । जु इति सौत्रो धातुः । चोरी च (उ २-२३) इति रक्प्रत्ययः । कात्यायन स्त्वाह । रकि ज्यः संप्रसारणे जीर इति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०