मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् १२

संहिता

यद्दे॒वानां॑ मित्रमहः पु॒रोहि॒तोऽन्त॑रो॒ यासि॑ दू॒त्य॑म् ।
सिन्धो॑रिव॒ प्रस्व॑नितास ऊ॒र्मयो॒ऽग्नेर्भ्रा॑जन्ते अ॒र्चयः॑ ॥

पदपाठः

यत् । दे॒वाना॑म् । मि॒त्र॒ऽम॒हः॒ । पु॒रःऽहि॑तः । अन्त॑रः । यासि॑ । दू॒त्य॑म् ।
सिन्धोः॑ऽइव । प्रऽस्व॑नितासः । ऊ॒र्मयः॑ । अ॒ग्नेः । भ्रा॒ज॒न्ते॒ । अ॒र्चयः॑ ॥

सायणभाष्यम्

हे मित्रमहो मित्राणां पूजकाग्ने यद्यदा पुरोहितस्त्वं वेदेः पूर्व स्यां दिशि स्थापितोंऽतरो देवयजनमध्ये वर्तमानः सन् देवानां दूत्यं दूत कर्म यासि प्राप्नोषि तदानीमग्नेस्तवार्चयो दीप्तयो भ्राजंते । दीप्यंते । तत्र दृष्टांतः । सिंधोरिव यथा समुद्रस्य प्रस्वनितासः प्रकृष्टध्वनियुक्ता ऊर्मयस्तरंगा भ्राजंते तद्वत् ॥ मित्रमहः । मह पूजायां मित्रैर्ऋत्विग्भिर्मह्यते पूज्यत इति मिश्रमहाः । औणादिकोऽसुन् । यासि । यद्वृत्तयोगादनिघातः । दूत्यम् । दूतस्य कर्म दूत्यम् । दूतस्य भागकर्मणी (पा ४-४-१२०) इति यत्प्रत्ययः । सर्वे विधयश्छंदसि विकल्प्यंत इति वचनाद्यतोऽनाव इत्याद्युदात्तत्वाभावे तित्स्वरितमिति स्वरितत्वम् । प्रस्वनितासः । स्यमु स्वन ध्वन शब्दे । भावे निष्ठा । प्रकृष्टं स्वनितं येषां ते प्रस्वनिताः । असुगागमः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ऊर्मयः । अर्तेरूच्च । उ ४-४-४४ । इति मिप्रत्ययः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०