मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४४, ऋक् १४

संहिता

शृ॒ण्वन्तु॒ स्तोमं॑ म॒रुतः॑ सु॒दान॑वोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ ।
पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या॑मु॒षसा॑ स॒जूः ॥

पदपाठः

शृ॒ण्वन्तु॑ । सोम॑म् । म॒रुतः॑ । सु॒ऽदान॑वः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ ।
पिब॑तु । सोम॑म् । वरु॑णः । धृ॒तऽव्र॑तः । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । स॒ऽजूः ॥

सायणभाष्यम्

मरुतो देवाः स्तोममस्मदीयं स्तोत्रं शृण्वंतु । कीदृशाः । सुदानवः सुष्ठु फलस्य दातारः अग्निजिह्वा अग्निर्जिह्वास्थानीयो मुख्यो येषु मरुत्सुतादृशाः ऋुतावृधः सत्यस्य यज्ञस्य वा वर्धकाः । तथा धृतव्रतो गृहीतकर्मा वरुणो देवोऽश्विभ्यां देवाभ्यामुषसा देवतया सजूः सह सोमं पिबतु ॥ सुदानवः । डुदाञ् दाने । दाभाभ्यां नुः (उ ३-३२) इति भावे नुप्रत्ययः । दानुशब्द आद्युदात्तः । शोभनं दानु येषाम् । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । अग्निजिह्वाः । अग्नेर्जिह्वायामवस्थिता हविर्भाज इत्यर्थः । तात्स्थ्या त् ताच्छब्द्यम् । अग्निर्जिह्वास्थानीयो येषां ते । छांदसमंतोदात्तत्वम् । ऋतावृधः । ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारः । वृधेरंतर्भावितण्यर्थात् । क्विप्चेति क्विप् । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वं ॥ ३० ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०