मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४५, ऋक् १

संहिता

त्वम॑ग्ने॒ वसूँ॑रि॒ह रु॒द्राँ आ॑दि॒त्याँ उ॒त ।
यजा॑ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष॑म् ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । वसू॑न् । इ॒ह । रु॒द्रान् । आ॒दि॒त्यान् । उ॒त ।
यज॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् । मनु॑ऽजातम् । घृ॒त॒ऽप्रुष॑म् ॥

सायणभाष्यम्

हे अग्ने त्वमिह कर्मणि वस्वादीन्यज । उतापि च जनमन्यमपि देवतारूपं प्राणिनं यज । कीदृशं स्वध्वरं शोभनयागयुक्तं मनुजातं मनुवा प्रजापतिनोत्पादितं घृतप्रुषमुदकस्य सेक्तारं ॥ यज । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । स्वध्वरम् । शोभनोऽध्वरो यस्यासौ स्वध्वरः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । मनुजातम् । जनेरंतर्भावितण्यर्थात्कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । घृतप्रुषम् । प्रुष प्लुषस्नेहन स्नेचनपूरणेषु । घृतेनोदकेन प्रुष्णाति पूरयतीति घृतप्रुट् । क्विप्चेति क्विप्॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१