मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४५, ऋक् २

संहिता

श्रु॒ष्टी॒वानो॒ हि दा॒शुषे॑ दे॒वा अ॑ग्ने॒ विचे॑तसः ।
तान्रो॑हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ॥

पदपाठः

श्रु॒ष्टी॒ऽवानः । हि । दा॒शुषे॑ । दे॒वाः । अ॒ग्ने॒ । विऽचे॑तसः ।
तान् । रो॒हि॒त्ऽअ॒श्व॒ । गि॒र्व॒णः॒ । त्रयः॑ऽत्रिंशतम् । आ । व॒ह॒ ॥

सायणभाष्यम्

हे अग्ने विचेतसो विशिष्वप्रज्ञाना देवा दाशुषे हविर्दत्तवते यजमानाय श्रुष्टीवानो हि । श्रुष्टिः फलस्य दानम् । तद्भाजः खलु । हे रोहिदश्व रोहिन्नामकैरश्वैरुपेत गिर्वणो गीर्भिः स्तुतिभिर्वननीयाग्ने । गिर्वणा देवो भवति गीर्भिरेनं वनयंति (नि ६-१४) इति यास्कः । त्रयस्त्रिंशतमनया संख्यया संख्यातांस्तान्देवाना वह । इहानय ॥ श्रुष्वीवानः । श्रुष्विः प्रेरणार्थः । भावे क्तिच् । श्रुष्विं वनंति संभजंत इति श्रुष्वीवानः । अन्येभ्योऽपि दृश्यंत इति विच् । छांदसं दीर्घत्वम् । विचेतसः । विशिष्टं चेतो येषां ते । बहुव्रीहौ पूर्वपदप्रकृति स्वरत्वम् । गिर्वणः । गीर्भिर्वननीयो गिर्वणाः । वनतेरसुन् । पूर्वपदस्य ह्रस्वत्वं छांदसम् । त्रयश्च त्रिंशच्च त्रयस्त्रिंशत् । त्रेस्त्रयः (पा ६-३-४८) इति त्रिशब्दस्य त्रयसादेशः । संख्या (पा ६-२-३५) इति पूर्वपदप्रकृतिस्वरत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१