मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४५, ऋक् ३

संहिता

प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् ।
अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क॑ण्वस्य श्रुधी॒ हव॑म् ॥

पदपाठः

प्रि॒य॒मे॒ध॒ऽवत् । अ॒त्रि॒ऽवत् । जात॑ऽवेदः । वि॒रू॒प॒ऽवत् ।
अ॒ङ्गि॒र॒स्वत् । म॒हि॒ऽव्र॒त॒ । प्रस्क॑ण्वस्य । श्रु॒धि॒ । हव॑म् ॥

सायणभाष्यम्

हे महिव्रत प्रभूतकर्मन् जातवेदोऽग्ने प्रस्कण्वस्य कण्वपुत्रस्य महर्षेर्हवमाह्वानं श्रुधि । शृणु । तत्र चत्वारो दृष्टांताः । प्रियमेधात्रिविरूपांगिरोनामका एतेषामाह्वानं यथा शृणोषि तद्वत् । अत्र निरुक्तम् । प्रियमेधः प्रिया अस्य मेधा यथैतेषामृषीणामेवं प्रस्कण्वस्य शृणु ह्वानम् । प्रस्कण्वः कण्वस्य पुत्रः कण्वप्रभवो यथा प्राग्रमिति । विरूपो नानारूपो महिव्रतो महाव्रत इति च । नि ३-१७ ॥ प्रियमेधवत् । प्रियमेधस्येव । तत्र तस्येव (पा ५-१-११६) इति षष्ठ्यर्थे वतिः । एवमत्रिवदित्यादावपि । प्रस्कण्वादयो गताः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१