मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४५, ऋक् ४

संहिता

महि॑केरव ऊ॒तये॑ प्रि॒यमे॑धा अहूषत ।
राज॑न्तमध्व॒राणा॑म॒ग्निं शु॒क्रेण॑ शो॒चिषा॑ ॥

पदपाठः

महि॑ऽकेरवः । ऊ॒तये॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।
राज॑न्तम् । अ॒ध्व॒राणा॑म् । अ॒ग्निम् । शु॒क्रेण॑ । शो॒चिषा॑ ॥

सायणभाष्यम्

महिकेरवः प्रौढकर्माणः प्रियमेधाः प्रियेण यज्ञेनोपेता ऋषय ऊतये रक्षार्थमग्निमहूषत । आहूतवंतः । कीदृशं अध्वराणां यज्ञानां मध्ये शुक्रेण शोचिषा शुद्धेन प्रकाशेन राजंतं दीप्यमानं ॥ महिकेरवः । मह पूजायाम् । औणादिक इन्प्रत्ययः । डुकृञ् करणे । कृवापाजीत्युण् । महयो महांतः कारवो येषां ते तथोक्ताः । आकारस्यैकारादेशश्छांदसः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । प्रियमेधाः । प्रियो मेधो येषां ते । अहूषत । ह्वेञ् स्पर्धायां शब्दे च । लुङि सिचि बहुलं छंदसीति संप्रसारणं परपूर्वत्वम् । हल इति दीर्घत्वं आदेशप्रत्यययोरिति षत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१