मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४५, ऋक् ५

संहिता

घृता॑हवन सन्त्ये॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ।
याभि॒ः कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा ॥

पदपाठः

घृत॑ऽआहवन । स॒न्त्य॒ । इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ।
याभिः॑ । कण्व॑स्य । सू॒नवः॑ । हव॑न्ते । अव॑से । त्वा॒ ॥

सायणभाष्यम्

हे घृताहवन घतेनाहूयमान संत्य फलप्रदाग्ने इमा उ गिरोऽस्माभिः प्रयुज्यमाना अपि स्तोत्ररूपा वाचः सु श्रुधि । सुष्ठु शृणु । कण्वस्य महर्षेः सूनवः पुत्रा याभिर्गीर्भिरवसे स्वरक्षार्थं त्वा हवंते त्वामाह्वयंति ॥ घृताहवन । घृतेनाहूयतेऽस्मिन्निति घृताहवनः । अधिकरणे ल्युट् । आमंत्रिताद्युदात्तत्वम् । श्रुधि । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिरादेशः । बहुलं छंदसीति विकरणस्य लुक् ॥ ३१ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१