मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४५, ऋक् ७

संहिता

नि त्वा॒ होता॑रमृ॒त्विजं॑ दधि॒रे व॑सु॒वित्त॑मम् ।
श्रुत्क॑र्णं स॒प्रथ॑स्तमं॒ विप्रा॑ अग्ने॒ दिवि॑ष्टिषु ॥

पदपाठः

नि । त्वा॒ । होता॑रम् । ऋ॒त्विज॑म् । द॒धि॒रे । व॒सु॒वित्ऽत॑मम् ।
श्रुत्ऽक॑र्णम् । स॒प्रथः॑ऽतमम् । विप्राः॑ । अ॒ग्ने॒ । दिवि॑ष्टिषु ॥

सायणभाष्यम्

हे अग्ने विप्रा मेधाविनो दिविष्टिषु यागेषु त्वां नि दधिरे । स्थापितवंतः । कीदृशम् । होतारमाह्वातारं ऋत्विजमृतुषु यजन शीलं वसुवित्तममतिशयेन धनस्य लंभयितारं श्रुत्कर्णं श्रवणयोग्यकर्णोपेतं सप्रथस्तममतिशयेन प्रख्यातं ॥ दधिरे ॥ इरेचश्चित्त्वादंतोदात्तत्वम् । पादादित्वान्निघाताभावः । दिविष्टिषु । इष्वय एषणानि । दिवः स्वर्गस्यैषणानि येषु यागेषु ते दिविष्टयः । सर्वे विधयश्छंदसि विकल्ब्यंत इति वचनाद्दिव उत् (पा ६-१-१३१) इत्युत्वं न क्रियते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२