मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४५, ऋक् ८

संहिता

आ त्वा॒ विप्रा॑ अचुच्यवुः सु॒तसो॑मा अ॒भि प्रयः॑ ।
बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता॑य दा॒शुषे॑ ॥

पदपाठः

आ । त्वा॒ । विप्राः॑ । अ॒चु॒च्य॒वुः॒ । सु॒तऽसो॑माः । अ॒भि । प्रयः॑ ।
बृ॒हत् । भाः । बिभ्र॑तः । ह॒विः । अग्ने॑ । मर्ता॑य । दा॒शुषे॑ ॥

सायणभाष्यम्

हे अग्ने सुतसोमा अभिषुतसोमयुक्ता विप्रा मेधाविन ऋत्विजः प्रयोऽभि हविर्लक्षणमन्नमभिलक्ष्य त्वा आचुच्यवुः । त्वामागमयंति । कीदृशं त्वाम् । बृहन्महांतं भा भासमानम् । कीदृशा विप्राः । दाशुषे मर्ताय हविष्प्रदस्य यजमानस्य संबंधि हविर्बिभ्रतो धारयंतः ॥ अचुच्यवुः । च्युङ् गतौ । अस्मादंतर्भावितण्यर्थात् लङि व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति शपः श्लुः । सिजभ्यस्तविदिभ्यश्च (पा ३-४-१०९) इति झेर्जुसादेशः । जुसि च (पा ७-३-८३) इति गुणः । बृहत् । भाः । उभयत्र सुपां सुलुगिति विभक्तेर्लुक् । बिभ्रतः । डुभृञ् धारणपोषणयोः । शतरि नाभ्यस्ताच्छतुरिति नुमागमप्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । मर्ताय दाशुषे । उभयत्र षष्ठ्यर्थे चतुर्थी वक्तव्या । पा २-३-६२-१ । इती चतुर्थी ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२