मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् १

संहिता

ए॒षो उ॒षा अपू॑र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः ।
स्तु॒षे वा॑मश्विना बृ॒हत् ॥

पदपाठः

ए॒षो इति॑ । उ॒षाः । अपू॑र्व्या । वि । उ॒च्छ॒ति॒ । प्रि॒या । दि॒वः ।
स्तु॒षे । वा॒म् । अ॒श्वि॒ना॒ । बृ॒हत् ॥

सायणभाष्यम्

एषो एषैवास्माभिः परिदृश्यमाना प्रिया सर्वेषां प्रीतिहेतुरपूर्व्या पूर्व्येषु मध्यरात्रादिकालेषु विद्यमाना न भवति किंत्विदानींतन्युषा उषोदेवता दिवो द्युलोकस्य सकाशादागत्य । व्युच्छति । तमो वर्जयति । हे अश्विनौ वां युवां बृहत्प्रभूतं यथा भवति तथा स्तुषे । स्तौमि ॥ स्तुषे । ष्टुञ् स्तुतौ तिङां तिङो भवंतीत्युत्तमैकवचनस्य मध्यमैकवचनादेशः । यद्वा । लेट्युत्तमैकवचने सिब्बहुलं लेटीति सिप् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३