व॒च्यन्ते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ ।
यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
व॒च्यन्ते॑ । वा॒म् । क॒कु॒हासः॑ । जू॒र्णाया॑म् । अधि॑ । वि॒ष्टपि॑ ।
यत् । वा॒म् । रथः॑ । विऽभिः॑ । पता॑त् ॥
हे अश्विनौ वां युवयोः संबंधी रथो जूर्णायां नानाशास्त्रैः स्तुतायामधि विष्टपि स्वर्गलोके यद्यदा विभिरश्वैः पतात् पतति गच्छति तदानीं वां युवयोः ककुहासः स्तुतयो वच्यंते । अस्माभिरुच्यंते ॥ वच्यंते । ब्रवीतेर्यकि ब्रुवो वचिः (पा २-४-५३) इति वच्यादेशः । वचिस्वपीत्यादिना संप्रसारणम् । संप्रसारणाच्चेत्यत्र वा छंदसीत्यनुवृत्तेः परपूर्वत्वस्य पाक्षिकत्वाद्यणादेशः । प्रत्ययस्वरः । ककुहासः । ककुभं शृंगे विदुः प्रधाने चेत्यभिधानात् प्राधान्याभिधायिना कुकुप्शब्देन तत्प्रतिपादिकाः स्तुतयो लक्ष्यंते । हत्वं छांदसम् । आज्जसेरसुगित्यसुक् । जूर्णायां जृष् वयोहानौ । अत्र स्तुत्यर्थो धातूनामनेकार्थत्वात् । निष्ठायां श्र्युकः कतीतीट् प्रतिषेधः । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । रदाभ्यामिति निष्ठानत्वम् (पा ८-२-४२) प्रत्ययस्वरः । विभिः वी गत्यादौ । वियंति गच्छंतीति वयोऽश्वाः । औणादिको डिप्रत्ययः । पतात् । पत् लृ गतौ । लेट्याडागमः । इतश्च लोप इतीकारलोपः ॥ ३ ॥