मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् ४

संहिता

ह॒विषा॑ जा॒रो अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा ।
पि॒ता कुट॑स्य चर्ष॒णिः ॥

पदपाठः

ह॒विषा॑ । जा॒रः । अ॒पाम् । पिप॑र्ति । पपु॑रिः । न॒रा॒ ।
पि॒ता । कुट॑स्य । च॒र्ष॒णिः ॥

सायणभाष्यम्

हे अश्विनौ देवौ अपां जारः स्वकीयतापेनोदकानां जरयिता सूर्यो हविषाऽस्मद्दत्तेन पिपर्ति । देवान्पूरयति । उदिते सूर्ये हविष्ट्रदानात्सूर्यस्य पूरकत्वं द्रष्टव्यम् । अतः सूर्योदयकाले युवाभ्यामागंतव्यमित्यर्थः । कीदृशो जारः । पपुरिरुक्तक्रमेण पूरणस्वभावः पिता पालकः कुटस्य चर्षणिः कर्मणो द्रष्टा । अत्र निरुक्तम् । हविषाऽपां जरयिता पिपर्ति पपुरिरिति पृणातिनिगमौ वा प्रीणातिनिगमौ वा पिता कृतस्य कर्मणश्चायितादित्यः (नि ५-२४) इति ॥ जारः । जरयतीति जार आदित्यः । दारजारौ कर्तरि णिलुक्च । पा ३-३-२०-४ । इति घञंतो निपातितः । कर्षात्वत इत्यंतोदात्तत्वम् । अपाम् । ऊडिदमिति विभक्तेरुदात्तत्वम् । पिपर्ति । पृ पालनपूरणयोः । तिपि जुहोत्यादित्वाच्छपः श्लुः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । अनुदात्ते चेत्यभ्यस्तस्याद्युदात्तत्वम् । पपुरिः । आदृगमहनेति किन्प्रत्ययः । लिड्वद्भावात्कित्त्वे सिद्धेऽपि पुनः कित्करणसामर्थ्यादृच्छत्यृताम् (पा ७-४-११) इति गुणाभावः । उदोष्ठ्यपूर्वस्येत्युत्वम् । नित्त्वादाद्युदात्तत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३