मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् ६

संहिता

या न॒ः पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः ।
ताम॒स्मे रा॑साथा॒मिष॑म् ॥

पदपाठः

या । नः॒ । पीप॑रत् । अ॒श्वि॒ना॒ । ज्योति॑ष्मती । तमः॑ । ति॒रः ।
ताम् । अ॒स्मे इति॑ । रा॒सा॒था॒म् । इष॑म् ॥

सायणभाष्यम्

हे अश्विना ज्योतिष्मती रसवीर्यादिरूपज्योतिर्युक्ता येडन्नं नोऽस्मान्पीपरत् । पारयेत् तृप्तिं प्रापयेत् । किं कृत्वा । तमो दारिद्र्य रूपमंधकारं तिरोऽंतर्हितं विनष्टं कृत्वा । तामिषं तादृशमन्नमस्मे अस्मभ्यं रासाथाम् । युवां दत्तं ॥ पीपरत् । पृ पालनपूरणयोः । ण्यंताल्लुङि चङि णिलोपः । उपधाह्रस्वत्वद्विर्भावहलादिशेषसन्वद्भावेत्वदीर्घाः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । चङ्यन्यतरस्याम् (पा ६-१-२१८) इत्युपोत्तमस्य धात्वकारस्योदात्तत्वे प्राप्ते व्यत्ययेनाभ्यासस्योदात्तत्वम् । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । अस्मे । सुपां सुलुगिति चतुर्थीबहुवचनस्य शेआदेशः । रासाथाम् । रा दाने ॥ छांदसे प्रार्थनायां लुङि व्यत्ययेनात्मनेपदम् । च्लेः सिच् । एकाच इतीट् प्रतिषेधः । पूर्ववदडभावः । तिङ्ङतिङ इति निघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४