मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् ७

संहिता

आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे ।
यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ॥

पदपाठः

आ । नः॒ । ना॒वा । म॒ती॒नाम् । या॒तम् । पा॒राय॑ । गन्त॑वे ।
यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् ॥

सायणभाष्यम्

हे अश्विना मतीनां स्तुतीनां पाराय गंतवे पारं गंतुं नावा नौरूपेण गमनसाधनेन नोऽस्मान्प्रत्या यातम् । समुद्रमध्यादागच्छतम् । भूमावागंतुं रथं भवदीयं युंजाथाम् । साश्वं कुरुतं ॥ नावा । सावेकाच इति विभक्तेर्मुदात्तत्वम् । गंतवे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वंयुंजाथाम् । युजिर् योगे । लोट्याथामिति रुधादित्वाच्छ्नम् । श्नसोरल्लोपः । प्रत्ययस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४