दि॒वस्क॑ण्वास॒ इन्द॑वो॒ वसु॒ सिन्धू॑नां प॒दे ।
स्वं व॒व्रिं कुह॑ धित्सथः ॥
दि॒वः । क॒ण्वा॒सः॒ । इन्द॑वः । वसु॑ । सिन्धू॑नाम् । प॒दे ।
स्वम् । व॒व्रिम् । कुह॑ । धि॒त्स॒थः॒ ॥
हे कण्वासः कण्वपुत्राः । यद्वा । मेधाविन ऋत्विजः । अश्विनावित्थं पृच्छतेति शेषः । कथमिति तदुच्यते । दिवो द्युलोकसकाशादिंदवः सूर्यरश्मयः प्रादुर्भूताः । सिंधूनामपां वृष्विरूपाणां स्यंदनस्वभावानां पदे स्थानेऽंतरिक्षे वसु अस्मदादिनिवासहेतुभूतमुषःकालीनं ज्योतिराविर्भूतमिति शेषः । अस्मिन्नवसरे युवां स्वं वव्रिं स्वकीयं रूपं कुह धित्सथः । कुत्र स्थापयितुमिच्छथः । अत्रा गत्य प्रदर्शनीयमिति तात्पर्यार्थः ॥ कुह । वा ह च च्छंदसि (पा ५-३-१३) इति किंशब्दात्सप्तम्यर्थे हप्रत्ययः । कु तिहोः (पा ७-२-१०४) इति किमः कुः । धित्सथः । डुधाञ् धारणपोषणयोः । सनि मीमाघुरभलभशकपतपदामच इस् (पा ७-४-५४) इत्याकारस्य इसादेशः । अत्र लोपोऽभ्यासस्य (पा ७-४-५८) इत्यभ्यासलोपः । सः स्यार्धधातुके (पा ७-४-४९) इति सकारस्य तकारः ॥ ९ ॥