मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् १२

संहिता

तत्त॒दिद॒श्विनो॒रवो॑ जरि॒ता प्रति॑ भूषति ।
मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥

पदपाठः

तत्ऽत॑त् । इत् । अ॒श्विनोः॑ । अवः॑ । ज॒रि॒ता । प्रति॑ । भू॒ष॒ति॒ ।
मदे॑ । सोम॑स्य । पिप्र॑तोः ॥

सायणभाष्यम्

जरिता स्तोताऽश्विनोः संबंधिः तत्तदित् पुनःपुनः कृतं सर्वमप्यवोऽस्मद्विषयं रक्षणं प्रति भूषति । प्रत्येकमलंकरोति । तदा तदा प्रशंसतीत्यर्थः । कीदृशयोरश्विनोः । मदे हर्षे निमित्तभूते सति सोमस्य पिप्रतोः सोमं पूरयतोः ॥ भूषति । भूष अलंकारे । भौवादिकः । पिप्रतोः । पृ पालनपूरणयोः । पृ इत्येके । अस्माल्लटः शतृ । जुहोत्यादित्याच्छपः श्लुः । द्विर्भावोरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । शतुर्ङित्त्वाद्गुणाभावे यणादेशः । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५