मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् १३

संहिता

वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा ।
म॒नु॒ष्वच्छ॑म्भू॒ आ ग॑तम् ॥

पदपाठः

व॒व॒सा॒ना । वि॒वस्व॑ति । सोम॑स्य । पी॒त्या । गि॒रा ।
म॒नु॒ष्वत् । श॒म्भू॒ इति॑ शम्ऽभू । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे शंभू सुखस्य भावयितारावश्विनौ मनुष्वत् मनाविव विवस्पति परिचरणवति यजमाने ववसाना निवासशीलौ युवां सोमस्य पीत्या सोमस्य पाननिमित्तं गिरा स्तुतिनिमित्तं चा गतम् । आगच्छतं ॥ ववसाना । वस निवासे । ताच्छील्यवयोवचनेति ताच्छेलिकश्चानश् (पा ३-२-१२९) बहुलं छंदसीति शपः श्लुः । अन्येषामपि दृश्यत इति संहितायामभ्यासस्य दीर्घत्वम् । सुपां सुलुगिति विभक्तेराकारः । चित इत्यंतो दात्तत्वम् । पीत्या । पा पाने । स्थागापापचो भाव इति भावे क्तिन् । घुमास्थेतीत्वम् । व्यत्ययेनांतोदात्तत्वम् । तृतीयै कवचने यणादेश उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । मनुष्वत् । मन ज्ञाने । मन्यते जानातीति मनः । बहुलवचनादौणादिक उसिप्रत्ययः । तत्र तस्येवेति सप्तम्यर्थे वतिः । प्रत्ययस्वरः । गतम् । गमेर्लोट बहुलं छंदसीति शपो लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५