मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४६, ऋक् १४

संहिता

यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् ।
ऋ॒ता व॑नथो अ॒क्तुभि॑ः ॥

पदपाठः

यु॒वोः । उ॒षाः । अनु॑ । श्रिय॑म् । परि॑ऽज्मनोः । उ॒प॒ऽआच॑रत् ।
ऋ॒ता । व॒न॒थः॒ । अ॒क्तुऽभिः॑ ॥

सायणभाष्यम्

हे अश्विनौ परिज्मनोः परितो गंत्रोर्युवोर्युवयोरुभयोः श्रियमनु आगमनरूपां शोभामनुसृत्योषा उपाचरत् । उषःकालदेवतेहागच्छतु । युवयोरागतयोः सतोः पश्चादागतेत्यर्थः । युवां चाक्तुभी राश्रिभिर्ऋता यज्ञगतानि हवींषि वनथः । कामयेथे । संभजेथे ॥ युवोः । युष्मच्छब्दात् षष्ठीद्विवचनस्य सुपां सुपो भवंतीति षष्ठीद्विवचनादेशः । अत आदेशविषयत्वाद्योऽचीति यत्वाभावः । शेषे लोपः । परिज्मनोः । परितोऽजतो गच्छत इति परिज्मानौ । श्वन्नुक्षन्नित्यादिनाजतेर्मनित्ययांतो निपातितः । ऋुता । शेश्छंदसीति शेर्लोपः । वनथः । वन षण संभक्तौ । तिङ्ङतिङ इति निघातः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५