मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४७, ऋक् २

संहिता

त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॑ सु॒पेश॑सा॒ रथे॒ना या॑तमश्विना ।
कण्वा॑सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव॑म् ॥

पदपाठः

त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । सु॒ऽपेश॑सा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
कण्वा॑सः । वा॒म् । ब्रह्म॑ । कृ॒ण्व॒न्ति॒ । अ॒ध्व॒रे । तेषा॑म् । सु । शृ॒णु॒त॒म् । हव॑म् ॥

सायणभाष्यम्

हे अश्विना त्रिवंधुरेणोन्न तानतरूपत्रिविधबंधनकाष्ठयुक्तेन । त्रिवृताप्रतिहतगतितया लोकत्रये वर्तमानेन सुपेशसा शोभनसुवर्णयुक्तेन रथेना यातम् । इहागच्छतम् । कण्वासः कण्वपुत्रा मेधाविन ऋत्विजो वा वां युवरोरध्वरे यागे ब्रह्म स्तोत्ररूपं मंत्रं हविर्लक्षणमन्नं वा कृण्वंति । कुर्वंति । तेषां कण्वानां हवमाह्वानं सु शृणुतम् । सुष्ठ्वादरेण शृणुतं ॥ त्रिवंधुरेण । बध्नंतीति बंधुराः । बंधेरौणादिक उरन्प्रत्ययः । त्रयो बंधुरा यस्यसौ त्रिबंधुरः । त्रिचक्रादिषु पाठात् त्रिचक्रादीनां छंदस्युपसंख्यानम् । पा ६-२-१९९-१ । इत्युत्तर पदांतोदात्तत्वम् । त्रिवृता । त्रिषु लोकेषु वर्तत इति त्रिवृत् । क्विप्चेति क्विप् । सुपेशसा । पेश इति हिरण्यनाम । शोभनं पेशो यस्यासौ सुपेशाः । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्त त्वम् । शृणुतम् । श्रु श्रवणे । श्रुवः शृ चेति श्नुः । तत्संनियोगे धातो शृभावश्च । हवम् । हूयतेर्भावेऽनुपसर्गस्य (पा ३-३-७५) इत्यप् । संप्रसारणं च गुणावादेशौ । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः