मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४७, ऋक् ४

संहिता

त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा॑ य॒ज्ञं मि॑मिक्षतम् ।
कण्वा॑सो वां सु॒तसो॑मा अ॒भिद्य॑वो यु॒वां ह॑वन्ते अश्विना ॥

पदपाठः

त्रि॒ऽस॒ध॒स्थे । ब॒र्हिषि॑ । वि॒श्व॒ऽवे॒द॒सा॒ । मध्वा॑ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् ।
कण्वा॑सः । वा॒म् । सु॒तऽसो॑माः । अ॒भिऽद्य॑वः । यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे विश्ववेदसा सर्वज्ञावश्विनौ त्रिषधस्थे कक्ष्यात्रयरूपेणास्तीर्णतया त्रिषु स्थानेष्ववस्थिते बर्हिषि दर्भे स्थित्वा मध्वा मधुरेण रसेन यज्ञं मिमिक्षतम् । सेक्तुमिच्छतम् । हे अश्विना वां युष्मदर्थं सुतसोमा अभिषुतसोमयुक्ता अभिद्य वोऽभिगतदीप्तयः कण्वासो युवामुभौ हवंते । आह्वयंते ॥ त्रिषधस्थे । त्रिषु स्थानेषु सह तिष्ठतीति त्रिषधस्थं बर्हिः । सुपि स्थ इति कप्रत्ययः । आतो लोप इट चेत्याकारलोपः । सध मादस्थयोश्छंदसि (पा ६-३-९६) इति सहशब्दस्य सधादेश्यः मध्वा । आगमानुशासनस्यानित्यत्वान्नुमभावः । जसि चेत्यत्र जसादिषु छंदसि वावचनम् । पा ७-३-१०९-१ । इति वचनान्नाभावाभावश्च । मिमिक्षतम् । मिह सेचने । सन्येकाच इतीट् प्रतिषेधः । हलंताच्चेति सनः कित्त्वाल्लघूपधगुणाभावः । अभ्यासहलादिशेषौ । ढत्वकुत्वषत्वानि । सुतसोमाः । सुतः सोमो यैः । बहुव्रीहिस्वरः । अभिद्यवः । द्युरितहर्नाम । तेन तत्संबंधी प्रकाशो लक्ष्यतो । अभिगता द्युम् । आत्यादयः क्रांताद्यर्थे द्वितीयया । म २-२-१८-४ । इति समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः