मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४७, ऋक् ५

संहिता

याभि॒ः कण्व॑म॒भिष्टि॑भि॒ः प्राव॑तं यु॒वम॑श्विना ।
ताभि॒ः ष्व१॒॑स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ॥

पदपाठः

याभिः॑ । कण्व॑म् । अ॒भिष्टि॑ऽभिः । प्र । आव॑तम् । यु॒वम् । अ॒श्वि॒ना॒ ।
ताभिः॑ । सु । अ॒स्मान् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥

सायणभाष्यम्

हे अश्विना युवं युवामुभौ याभिरभिष्टिभिरपेक्षिताभी रक्षाभिः कण्वं महर्षिं प्रावतं रक्षितवंतौ हे शुभस्पती शोभनस्य कर्मणः पालकौ ताभी रक्षाभिरस्माननुष्ठातृन्स्ववतम् । सुष्ठु रक्षतम् । स्पष्टमन्यत् ॥ अभिष्टिभिः । आभिमुख्येनेष्यंत इत्यभिष्टयः फलानि । इषु इच्छायाम् । कर्मणि क्तिनि तितुत्रेत्यादिनेट् प्रतिषेधः । एमनाधिषु च्छंदसि पररूपं वक्तव्यम् । पा ६-१-९४-६ । इति पररूपत्वम् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । उपसर्गाश्चाभिवर्जम् (फि ४-१३) इत्यभिरंतोदात्तः । शुभस्पती । शुभ दीप्तौ । क्विप्चेति क्विप् । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । सुबामंत्रित इति षष्ठ्यंतस्य परांगवद्भावात् षष्ठ्यामंत्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वं ॥ १ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः