सु॒दासे॑ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो॑ वहतमश्विना ।
र॒यिं स॑मु॒द्रादु॒त वा॑ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह॑म् ॥
सु॒ऽदासे॑ । द॒स्रा॒ । वसु॑ । बिभ्र॑ता । रथे॑ । पृक्षः॑ । व॒ह॒त॒म् । अ॒श्वि॒ना॒ ।
र॒यिम् । स॒मु॒द्रात् । उ॒त । वा॒ । दि॒वः । परि॑ । अ॒स्मे इति॑ । ध॒त्त॒म् । पु॒रु॒ऽस्पृह॑म् ॥
हे दस्रा दर्शनीयावश्विनौ सुदासे शोभनदानयुक्ताय राज्ञे पिजवनपुत्राय रथे वसु बिभ्रता युवां पृक्षोऽन्नं वहतम् । प्रापितवंतौ । समुद्रादंतरिक्षात् । समुद्रमित्यंतरिक्षनाम । समुद्रोऽध्वरमिति तन्नामसु पाठात् । उत वा दिवस्परि अथवा स्वर्गात्पर्याहृत्य पुरुस्पृहं बहुभिः स्पृहणीयं रयिं धनमस्मे धत्तम् । अस्मासु स्थापयतं ॥ सुष्ठु ददातीति सुदाः । असुनि कृदुत्तरपदप्रकृतिस्वरत्वम् । दिवस्परि । पंचम्याः परावध्यर्थे (पा ८-३-५१) इति विसर्जनीयस्य सत्वम् । पुरुस्पृहम् । स्पृह ईप्सायाम् । चुरादिरदंतः । पुरुभिः स्पृह्यत इति पुरुस्पृहः । कर्मणि घञ् । अतो लोपस्य स्थानिवत्त्वाल्लघूपधगुणाभावः । ञित्स्वरेणोत्वरपदस्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरेण तदेव शिष्यते ॥ ६ ॥