मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४७, ऋक् ७

संहिता

यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे॑ ।
अतो॒ रथे॑न सु॒वृता॑ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभि॑ः ॥

पदपाठः

यत् । ना॒स॒त्या॒ । प॒रा॒ऽवति॑ । यत् । वा॒ । स्थः । अधि॑ । तु॒र्वशे॑ ।
अतः॑ । रथे॑न । सु॒ऽवृता॑ । नः॒ । आ । ग॒त॒म् । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥

सायणभाष्यम्

हे नासत्यासत्यरहितावश्विनौ यद्यदि युवां परावति दूरदेशे स्थो वर्तेर्थे । यद्वा अथवादि तुर्वशेऽधिके समीपे स्थः । अतोऽस्माद्दूरात्समीपाद्वा सूर्यस्य रश्मिभिः साकं सूर्योदयकाले सुवृता शोभनवर्तनयुक्तेन रथेन नोऽस्मान् प्रत्या गतम् । आगच्छतं ॥ नासत्या । सत्सु भवौ सत्यौ । न सत्यावसत्यौ । न असत्यौनासत्यौ नभ्राण्नपादित्यादिना नञिः प्रकृतिभावः । स्थः । अस भुवि । श्नसोरल्लोप इत्यकारलोपः । यद्वृत्तयोगादनिघातः । गतम् । गमेर्लोट बहुलं छंदसीति शपो लुक् । अनु दात्तोपदेशेत्यादिनानुनासिकलोपः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः