मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४७, ऋक् ९

संहिता

तेन॑ नास॒त्या ग॑तं॒ रथे॑न॒ सूर्य॑त्वचा ।
येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्व॒ः सोम॑स्य पी॒तये॑ ॥

पदपाठः

तेन॑ । ना॒स॒त्या॒ । आ । ग॒त॒म् । रथे॑न । सूर्य॑ऽत्वचा ।
येन॑ । शश्व॑त् । ऊ॒हथुः॑ । दा॒शुषे॑ । वसु॑ । मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

हे नासत्या सूर्यत्वचा सूर्यसंवृतेन सूर्यरश्मिसदृशेन वा तेन प्रसिद्धेन रथेना गतं आगच्छतम् । दाशुषे हविर्दत्तवते यजमानाय वसु धनं शश्वत् सर्वदा येन रथेनोहथुः प्रापितवंतौ । तेन रथेनेति पूर्वत्रान्वयः । किमर्थमागमनमिति तदुच्यते । मध्वो मधुरस्य सोमस्य पीतये सोमपानार्थं ॥ सूर्यत्वचा । त्वच संवरणे । त्वचति संवृणोतीति त्वग्रश्मिः । सूर्यस्य त्वगिव त्वग्यस्य । सप्तम्युपमानेत्यादिना । पा २-२-२४-१२ । बहुव्रीहिरुत्तरपदलोपश्च । सूर्यशब्दः षू प्रेरण इत्यस्मात् क्यपि राजसूयसूर्येत्यादिना रुडागमसहितो निपातितः । ततः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरेणाद्युदात्तः । स एव बहुव्रीहौ पूर्वपद । प्रकृतिस्वरेण शिष्यते । ऊहथुः । वह प्रापणे । लिट्यसंयोगाल्लिट् कित् । पा १-२-५ इति लिटः कित्त्वे वचिस्वपीत्यादिना संप्रसारणम् । अभ्यासहलादिशेषौ सवर्णदीर्घः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः