मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४७, ऋक् १०

संहिता

उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू॑ अ॒र्कैश्च॒ नि ह्व॑यामहे ।
शश्व॒त्कण्वा॑नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं॑ प॒पथु॑रश्विना ॥

पदपाठः

उ॒क्थेभिः॑ । अ॒र्वाक् । अव॑से । पु॒रु॒वसू॒ इति॑ पु॒रु॒ऽवसू॑ । अ॒र्कैः । च॒ । नि । ह्व॒या॒म॒हे॒ ।
शश्व॑त् । कण्वा॑नाम् । सद॑सि । प्रि॒ये । हि । क॒म् । सोम॑म् । प॒पथुः॑ । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

पुरूवसू प्रभूतधनावश्विनाववसेऽस्मद्रक्षणार्थमुक्थेभिरुक्थैः शस्त्रैरर्कैश्चार्चनसाधनैः स्तोत्रैश्चार्वागस्मदाभिमुख्येन नि ह्वयामहे । नितरामाह्वयामः । हे अश्विना कण्वानां कण्वपुत्राणां मेधाविनां वा प्रिये सदसि यज्ञस्थाने शश्वत्सर्वदा सोमं पपथुर्हि कम् । युवां पीतवंतौ खलु । उक्थेभिः । बहुलं छंदसीति भिस ऐसादेशाभावः । बहुवचने झल्येदित्येत्वम् । अर्कैः । ऋच स्तुतौ । पुंसि संज्ञायां घः प्रायेणेति करणे घः । चचोः कु घिण्यतोरिति कुत्वम् । नि ह्वया महे । निसमुपविभ्यो ह्वः (पा १-३-३०) इत्यात्मनेपदम् । सदसि । सीदंत्यस्मिन्निति सदः । असुनो नित्त्वादाद्युदात्तत्वम् । पपथुः । पा पाने । लिट्यातो लोप इट चेत्याकारलोपः । प्रत्ययस्वरः । हि चेति निघातप्रतिषेधः ॥ २ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः