मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् १

संहिता

स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः ।
स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे॑वि॒ दास्व॑ती ॥

पदपाठः

स॒ह । वा॒मेन॑ । नः॒ । उ॒षः॒ । वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
स॒ह । द्यु॒म्नेन॑ । बृ॒ह॒ता । वि॒भा॒ऽव॒रि॒ । रा॒या । दे॒वि॒ । दास्व॑ती ॥

सायणभाष्यम्

हे दुहितर्दिवो द्युदेवतायाः पुत्रि उष उषःकालदेवते नोऽस्मदर्थं वामेन धनेन सह व्युच्छ । प्रभातं कुरु । हे विभावर्युषोदेवते बृहता प्रभूतेन द्युम्नेनान्नेन सहव्युच्छ । हे देवि त्वं दास्वती दानयुक्ता सती राया पशुलक्षणेन धनेन सह व्युच्छ ॥ उच्छ । उभी विवासे । दुहितर्दिवः । सुबामंत्रिते परांगवत्स्वर इत्यत्र परमपि च्छंदसि । पा २-१-२-६ । इति वचनात् दिव इत्यस्य पूर्वांगवद्भावे सत्यामंत्रितस्य चेति षष्ठ्यामंत्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् । बृहता । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । विभावरि । भा दीप्तौ । आतो मनिन्नित्यादिना वनिप् । वनो र चेति ङीप् । तत्संनियोगेन नकारस्य रेफादेशः । संबुद्धौ ह्रस्वत्वम् । दास्वती डुदाञ् दाने । भावेऽसुन्प्रत्ययः । तदस्यास्ति (पा ५-२-१४) इति दास्वती । मादुपधाया इति मतुपो वत्वम् । उगितश्चेति ङीप् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः