मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् ३

संहिता

उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नाम् ।
ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ॥

पदपाठः

उ॒वास॑ । उ॒षाः । उ॒च्छात् । च॒ । नु । दे॒वी । जी॒रा । रथा॑नाम् ।
ये । अ॒स्याः॒ । आ॒ऽचर॑णेषु । द॒ध्रि॒रे । स॒मु॒द्रे । न । श्र॒व॒स्यवः॑ ॥

सायणभाष्यम्

उषा देव्युवास । पुरा निवासमकरोत् । प्रभातं कृतवतीत्यर्थः । च नु अद्याप्युच्छात् । व्युच्छति । प्रभातं करोति । कीदृशी देवी । रथानां जीरा प्रेरयित्री । उषःकाले हि रथाः प्रेर्यंते । अस्या उषस आचरणेष्वागमनेषु ये रथाः दध्रिरे धृताः सज्जीकृता भवंति । तेषां रथानामिति पूर्वत्रान्वयः । रथप्रेरणे दृष्टांतः । श्रवस्यवो धनकामाः समुद्रे न । यथा समुद्रमध्ये नावः सज्जीकृत्य प्रेरयंति तद्वत् ॥ उवास । वस निवासे । णलि लिट्यभ्यासस्योभयेषाम् (पा ६-१-१७) इत्यभ्यासस्य संप्रसारणम् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । उच्छात् । लेट्याडागमः । इतश्च लोप इतीकारलोपः । तुदादित्वाच्छप्रत्ययः । आगमानुदात्तत्वे प्रत्ययस्वरः । उषा इत्यस्य वाक्यांतरगतत्वात्तदपेक्षयास्य निघातो न भवति । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः । पा ८-१-१८-५ । इति वचनात् । जीरा । जु इति गत्यर्थः सौत्रो धातोः । जोरी च (उ २-२३) इति रक्प्रत्ययः । अस्याः । इदमोऽन्वादेश इत्यशादेशोऽनुदात्तः । विभक्तिरपि सुप्त्वादनुदात्तेति सर्वानुदात्तत्वम् । आचरणेषु । चर गत्यर्थः । ल्युट्च (पा ३-३-११५) इति भावे ल्युट् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । दध्रिरे । दृङ् आवस्थाने । लिटः कित्त्वाद्गुणाभावे यणादेशः । चित्त्वादंतोदात्तत्वम् । यच्छब्धयोगादनिघातः । श्रवस्यवः । श्रूयत इति श्रवो धनम् । असुन् । तदात्मन इच्छंतीति श्रवस्यवः । सुप आत्मनः क्यच् । क्याच्छंदसीत्युप्रत्ययः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः