मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् ४

संहिता

उषो॒ ये ते॒ प्र यामे॑षु यु॒ञ्जते॒ मनो॑ दा॒नाय॑ सू॒रयः॑ ।
अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ॥

पदपाठः

उषः॑ । ये । ते॒ । प्र । यामे॑षु । यु॒ञ्जते॑ । मनः॑ । दा॒नाय॑ । सू॒रयः॑ ।
अत्र॑ । अह॑ । तत् । कण्वः॑ । ए॒षा॒म् । कण्व॑ऽतमः । नाम॑ । गृ॒णा॒ति॒ । नृ॒णाम् ॥

सायणभाष्यम्

हे उषस्ते तव यामेषु गमनेषु सत्सु ये सूरये विद्वांसो दानाभिज्ञादानाय धनादिदानार्थं मनः स्वकीयं प्रयुंजते प्रेरयंति । दानशीला उदाराः प्रभवः प्रातःकाले दातुमिच्छंतीत्यर्थः । एषां दातुमिच्छतां नृणां तन्नाम दानविषये लोकप्रसिद्धं नाम कण्वतमोऽतिशयेन मेधावी कण्वो महर्षिरत्राह अत्रैवोषःकाले गृणाति । उच्चारयति । यो दातुमिच्छति यश्च नामग्रहणेन दातारं प्रशंसति तावुभावप्युषःकाल एव तथा कुरुत इत्युषसः स्तुतिः ॥ गृणाति गृशब्दे । क्रैयादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । नृणाम् । नामि नृ च । पा ६-४-६ इति दीर्घप्रतिषेधः नृ चान्यतरस्याम् (पा ६-१-१८४) इति विभक्तेरुदात्तत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः