मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् ५

संहिता

आ घा॒ योषे॑व सू॒नर्यु॒षा या॑ति प्रभुञ्ज॒ती ।
ज॒रय॑न्ती॒ वृज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिणः॑ ॥

पदपाठः

आ । घ॒ । योषा॑ऽइव । सू॒नरी॑ । उ॒षाः । या॒ति॒ । प्र॒ऽभु॒ञ्ज॒ती ।
ज॒रय॑न्ती । वृज॑नम् । प॒त्ऽवत् । ई॒य॒ते॒ । उत् । पा॒त॒य॒ति॒ । प॒क्षिणः॑ ॥

सायणभाष्यम्

उषा देवी प्रभुंजती प्रकर्षेण सर्वं पालयंत्या याति घ । प्रतिदिनमागच्छति खलु । तत्र दृष्टांतः । सूनरी सुष्ठु गृहकृत्यस्य नेत्री योषेव गृहणीव । कीदृश्युषाः । वृजनं गमनशीलं जंगमं प्राणिजातं जरयंती जरां प्रापयंती । असकृदुषस्यावृत्तायां वयोहान्या प्राणिनो जीर्णा भवंति । किंच उषः काले पद्वत् पादयुक्तं प्राणिजातमीयते । निद्रां परित्यज्य स्वस्वकृत्यार्थं गच्छति । किंच इयमुषाः पक्षिण उत्पातयति । पक्षिणो ह्युषःकाले समुत्थाय तत्र तत्र व्रजंति ॥ ऋुचि तुनुघेत्यादिना संहितायां दीर्घः । सुष्ठु नयतीति सूनरी । नृ नये । अच इरितीप्रत्ययः गतिसमासे कृद्ग्रहणे गतिकारकपूर्वस्यापि गृहणम् । परि २८ । इति वचनात्कृदिकारादक्तिनः (पा ४-१-४५) इति ङीष् । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । निपातस्य चेति पूर्वपदस्य दीर्घः । प्रभुंजती । भुजपालनाभ्यव हारयोः । लटः शतृ । रुधादित्वाच्छ्नम् । श्नसोरल्लोप इत्यकारलोपः । उगितश्चेतिङीप् । शतुरनुम इति नद्या उदात्तत्वम् । वृजनं वृजी वर्जने । वर्ज्यत इति वृजनं प्राणिजातम् । कृ पृ वृजिमंदिनिधाञ्भ्यः क्युः (उ २-८१) इति क्युप्रत्ययः । कित्त्वाल्लघूपधगुणाभावः । योरनादेशे प्रत्ययस्वरः । पद्वत् । पत् पादः । तदस्यास्तीति पद्वत् । झय इति मतुपो वत्वम् । व्यत्ययेन मतुप उदात्तत्वम् । न च स्वरविधौ व्यंजनमविद्यमानवत् । परि ७९ । इति व्यंजनस्याविद्यमानवत्त्वे सति ह्रस्वनुड् भ्यां मतुभिति मतुप उदात्तत्वमिति वाच्यम् । ह्रस्वादित्येव सिद्धे पुनर्नुड् ग्रहणसामर्थ्याजीषा परिभाषा नाश्रीयत इति वृत्तावुक्तम् । का ६-१-१७६ । इतरथा हि मरुत्वानित्यत्रापि मतुप उदात्तत्वं स्यात् ॥ ३ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः