मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् ६

संहिता

वि या सृ॒जति॒ सम॑नं॒ व्य१॒॑र्थिनः॑ प॒दं न वे॒त्योद॑ती ।
वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ॥

पदपाठः

वि । या । सृ॒जति॑ । सम॑नम् । वि । अ॒र्थिनः॑ । प॒दम् । न । वे॒ति॒ । ओद॑ती ।
वयः॑ । नकिः॑ । ते॒ । प॒प्ति॒वांसः॑ । आ॒स॒ते॒ । विऽउ॑ष्टौ । वा॒जि॒नी॒ऽव॒ति॒ ॥

सायणभाष्यम्

या देवता समनं समीचीनचेष्टावंतं पुरुषं वि सृजति प्रेरयति । गृहारामादिचेष्टा कुशलान्पुरुषानुषःकालः शयनादुत्थाप्य स्वस्वव्यापारे प्रेरयतीति प्रसिद्धम् । किंच उचा अर्थिनो याचकान्वि सृजति । तेऽपि ह्युषःकाले समुत्थाय स्वकीयदातृगृहे गच्छंति । ओदत्युषोदेवता पदं स्थानं न वेति । न कामयते । उषः कालः शीघ्रं गच्छतीत्यर्थः । हे वाजिनीवत्युषोदेवते ते व्युष्वौ त्वदीये प्रभात काले पप्तिवांसः पतनयुक्ता वयः पक्षिणो नकिरासते । न तिष्ठंति । किंतु स्वस्वनीडाद्विनिर्गत्य गच्छंतीत्यर्थः ॥ सृजति । सृज विसर्गे । तुदादित्वाच्छः । तस्य ङित्त्वाल्लघूपधगुणाभावः । प्रत्ययस्य पित्त्वादनुदात्तत्वे विकरणस्वरः । यद्वृत्तयोगादनिघातः ओदती । उन्दी क्लेदने । उनत्ति सर्वं नीहारेणेत्योदत्युषाः । शतरि व्यत्ययेन शप् । व्यत्ययेनानुनासिकलोपे लघूपधगुणः । उगितश्चेति ङीप् । आगमानुशासनस्यानित्यत्वान्नुमभावः । शपः पित्त्वादनुदात्तत्वम् । शतुरदुपदेशाल्लसार्वधातुकानुदात्त त्वे धातुस्वरेणाद्युदात्तत्वम् । न च शतुरनुम इति नद्या उदात्तत्वम् । अंतोदात्ताच्छतुः परस्यास्तद्विधानात् । नकिष्टे । युष्मत्तत्ततक्षुः ष्वंतःपादमिति षत्वम् । पप्तिवांसः । पत्लृ गतौ । लिटः क्वसुः । क्रादिनियमात्प्राप्त इट् वस्वेकाजाद्घसामिति नियमान्न प्राप्नोति तत्क्रियते सर्वविधीनां छंदसि विकल्पितत्वात् । कनिपत्योश्छंदसि (पा ६-४-९९) इत्युपधालोपः । द्विर्वचनेचीति स्थानिवद्भावाद्ध्विर्भावः । प्रत्ययस्वरः । वाजिनीवति । वाजोन्नमस्या अस्तीति वाजिनी क्रिया । मत्वर्थीय इनिः । ऋुन्नेभ्य इति ङीप् । तादृशी क्रिया यस्याः सा । तदस्यास्तीति मतुप् । संज्ञायामिति मतुपो वत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः