मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् ९

संहिता

उष॒ आ भा॑हि भा॒नुना॑ च॒न्द्रेण॑ दुहितर्दिवः ।
आ॒वह॑न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ॥

पदपाठः

उषः॑ । आ । भा॒हि॒ । भा॒नुना॑ । च॒न्द्रेण॑ । दु॒हि॒तः॒ । दि॒वः॒ ।
आ॒ऽवह॑न्ती । भूरि॑ । अ॒स्मभ्य॑म् । सौभ॑गम् । वि॒ऽउ॒च्छन्ती॑ । दिवि॑ष्टिषु ॥

सायणभाष्यम्

हे दिवो दुहितर्द्युलोकस्य पुत्रि उष उषोदेवते चंद्रेण सर्वेषामाह्लादकेन भानुना प्रकाशेन आ समंताद्भाहि । प्रकाशस्व । किं कुर्वती दिविष्टिषु दिवसेषु भूरि प्रभूतं सौभगं सौभाग्यमस्मभ्यमावहंती संपादयंती । तथा व्युच्छंती तमांसि वर्जयंती ॥ उषः । षाष्ठिकमामंत्रिताद्युदात्तत्वम् । दुहितर्दिवः । परमपि छंदसीति दिव इत्यस्य परस्य षष्ठ्यंतस्य पूर्वामंत्रितांगवद्भावे सति षष्ठ्यामंत्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् । आवहंती । ङीप्शपौ पित्त्वादनुदात्तौ । शतुश्चादुपदेशाल्लसार्वधातुकस्वरेणानुदात्तत्वम् । अतो धातुस्वरः शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । भूरि । प्रभवति न विनश्यतीति भूरि । आदिशदिभूशुभिभ्यः क्रिन् (उ ४-६५) इति क्रिन् । नित्त्वादाद्युदात्तत्वम् । सुभगस्य भावः सौभगम् । सुभगान्मंत्र इत्युद्गात्रादिषु पाठादञ्प्रत्ययः । हृद्भगसिंध्वंते पूर्वपदस्य चेत्युभयपदवृद्धौ प्राप्तायां सर्वे विधयश्छंदसि विकल्प्यंत इति वचनादत्रोत्तरपदवृद्धिर्न भवतीति वृत्तावुक्तम् । का ७-३-१९ । व्युच्छंती । उभी विवासे । विवासो वर्जनम् । तौदादिकः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः । दिविष्टिषु । दिव्शब्देन दिविष्ठ आदित्यो लक्ष्यते । तस्येष्टय एषणानि गमनानि येषु दिवसेषु ते दिविष्टयः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः