मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् ११

संहिता

उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ ।
तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह्न॑यः ॥

पदपाठः

उषः॑ । वाज॑म् । हि । वंस्व॑ । यः । चि॒त्रः । मानु॑षे । जने॑ ।
तेन॑ । आ । व॒ह॒ । सु॒ऽकृतः॑ । अ॒ध्व॒रान् । उप॑ । ये । त्वा॒ । गृ॒णन्ति॑ । वह्न॑यः ॥

सायणभाष्यम्

हे उषो वाजं हविर्लक्षणमन्नं हि श्रुतिषु प्रसिद्धं वंस्व । याचस्व । स्वीकुर्वित्यर्थः । यो वाजश्चित्रश्चायनीयो मानुषे मनुष्ये जने जाते यजमाने वर्तते । तं वाजमिति पूर्वत्रान्वयः । तेन कारणेन सुकृतः सुष्ठु कृतवतो यजमानानध्वरान् । हिंसारहितान् यागानुपा वह । प्रापय । ये यजमाना वह्नयो यज्ञनिर्वाहकास्त्वा त्वां गृणंति स्तुवंति । तान् सुकृत इति पूर्वेण संबंधः । एतदुक्तं भवति । यजमानैः प्रत्तं हविः स्वीकृत्य पुनरपि तेषां यज्ञं संपादयेति ॥ वाजम् । वज व्रज गतौ । कर्मणि घञ् । अजिव्रज्योश्च (पा ७-३-६०) इत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद्वाजो वाज्यमित्यत्रापि कुत्वाभाव इति वृत्ता वुक्तत्वात्कुत्वाभावः । कर्षात्वत इत्यंतोदात्तत्वे प्राप्ते वृषादित्वादाद्युदात्तत्वम् । वंस्व । वनु याचने । अत्र याचनवाचिना धातुना तदुत्तरभावी स्वीकारो लक्ष्यते । बहुलं छंदसीति विकरणस्य लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । हि चेति निघातप्रतिषेधः । सुकृतः । सुकर्मपापेत्यादिना करोतेर्भूतार्थे क्विप् । शुगागमः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अध्वरान् । ध्वरो हिंसा नास्त्यस्मिन्नति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अध्वरानित्यस्येप्सिततमत्वात्कर्तुरीप्सिततमम् (पा १-४-४९) इति कर्मसंज्ञा । सुकृत इत्यस्य त्वकथितं च (पा १-४-५१) इति नीवह्योर्हरतेश्च (म १-४-५१) इति द्विकर्मकेषु वहतेः परिगणितत्वात् । अध्वरानित्यत्र नकारस्य संहितायां दीर्घादटीति रुत्वम् । आतोऽट नित्यमिति पूर्वस्याकारस्य सानुनासिकता । गृणंति । गृ शब्दे । क्र्यादिभ्यः श्ना । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । श्नाभ्यस्तयोरात इत्याकारलोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः