मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् १३

संहिता

यस्या॒ रुश॑न्तो अ॒र्चय॒ः प्रति॑ भ॒द्रा अदृ॑क्षत ।
सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य॑म् ॥

पदपाठः

यस्याः॑ । रुश॑न्तः । अ॒र्चयः॑ । प्रति॑ । भ॒द्राः । अदृ॑क्षत ।
सा । नः॒ । र॒यिम् । वि॒श्वऽवा॑रम् । सु॒ऽपेश॑सम् । उ॒षाः । द॒दा॒तु॒ । सुग्म्य॑म् ॥

सायणभाष्यम्

यस्या उषसोऽर्चयः प्रकाशा रुशंतः शत्रून्हिंसंतो भद्राः कल्याणाः प्रत्यदृक्षत प्रतिदृश्यंते सा तथाभूतोषा नोऽस्मभ्यं रयिं ददातु । कीदृशं रयिम् । विश्ववारं विश्वस्य वारकम् । यद्वा । विश्वैर्वरणीयम् । सुपेशसं पेश इति रूपनाम । शोभनरूपोपेतं सुग्म्यं सुष्ठु गंतव्यम् । यद्वा । सुग्म्यमिति सुखनाम । तद्धेतुत्वात्ताच्छब्द्यं ॥ रुशंतः । रुश रिश हिंसायाम् । शतरि तुदादित्वाच्छः अदुपदेशाल्लसार्वधातुकानुदात्तत्वे सति शिष्टत्वाद्विकरणस्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । अदृक्षत । दृशेः कर्मणि लुजि झस्यादादेशः च्लेः सिच् । न दृशः (पा ३-१-४७) इति क्सप्रतिषेधः । एकाच इतीट् प्रतिषेधः । लिङ् सिचावात्मनेपदेषु (पा १-२-११) इति सिचः कित्त्वाल्लघूपधगुणाभावः । सृजिदृशोर्झल्यमकिति (पा ६-१-५८) इत्यमागमाभावश्च कित्त्वादेव । षत्वकत्वषत्वानि । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । विश्ववारम् । विश्वं वृणोतीति विश्ववारः । वृञ् वरणे कर्मण्यण् । यद्वा विश्वैर्व्रियत इति विश्ववारः । कर्मणि घञ् । मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । सुग्म्यं सुष्ठु गंतव्यः सुग्मः । गमेर्घञिर्थे कविधानमिति कप्रत्ययः । गमहनेत्यादिनोपधालोपः । तत्र भवं सुग्म्यम् । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वं ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः