मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् १४

संहिता

ये चि॒द्धि त्वामृष॑य॒ः पूर्व॑ ऊ॒तये॑ जुहू॒रेऽव॑से महि ।
सा न॒ः स्तोमाँ॑ अ॒भि गृ॑णीहि॒ राध॒सोषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥

पदपाठः

ये । चि॒त् । हि । त्वाम् । ऋष॑यः । पूर्वे॑ । ऊ॒तये॑ । जु॒हू॒रे । अव॑से । म॒हि॒ ।
सा । नः॒ । स्तोमा॑न् । अ॒भि । गृ॒णी॒हि॒ । राध॑सा । उषः॑ । शु॒क्रेण॑ । शो॒चिषा॑ ॥

सायणभाष्यम्

हे महि महिते पूजनीये वोषोदेवते त्वां ये चिद्धि ये खलु प्रसिद्धाः पूर्वे चिरंतना ऋषयो मंत्रद्रष्टार ऊतये रक्षणाय । अव इत्यन्ननाम । अवसेऽन्नाय च जुहूरे जुह्विरे आहूतवंतः । सूक्तरूपैर्मंत्रैः स्तुतवंत इत्यर्थः । हे उषः सा तादृशी त्वं राधसास्माभिर्दत्तेन हविर्लक्षणेन धनेन शुक्रेण शोचिषा दीप्तेन तमो निवारयितुं समर्थेन तेजसा चोपलक्षिता सती तेषामृषीणामिव नोऽस्माकं स्तोमानभि स्तुतीरभिलक्ष्य गृणीहि । सम्यक् स्तुतमिति शब्दय । अस्मदीयाभिः स्तुतिभिः संतुष्टा भवेत्यर्थः ॥ ऊतये । अवतेः क्तिनि ज्वरत्वरेत्यादिना वकारस्योपधायाश्चोट् । ऊतियूतीत्यादिना क्तिन्नुदात्तं निपाशितः । जुहूरे । ह्वेञ् स्पर्धायां शब्दे च । लिड्यभ्यस्तस्य चेति द्विर्वचनात्वूर्वमेवाभ्यस्तकारणभूतस्य ह्वयतेः संप्रसारणम् । अभ्यस्तस्य यो ह्वयतिः कश्चाभ्यस्तस्य ह्वयतिः यस्तस्य कारणम् । का ६-१-३३ । इति व्याख्यातत्वात् । परपूर्वत्वे हल इति दीर्घत्वम् । द्विर्वचनादीनि । इरयो र इतीरेचो रे आदेशः । चित इत्यंतोदात्तत्वम् । यद्वृत्तयोगादनिघातः । तत्र हि पंचमी निर्देशेऽपि व्यवहितेऽपि कार्यं भवतीत्युक्तम् । का ८-११-६६ । महि । मह पूजायाम् । औणादिक इ प्रत्ययः । कृदिकारादक्तिन इति ङीष् । संबुद्धावंबार्थेति ह्रस्वत्वम् (पा ७-३-१०७) स्तोमान् । संहितायां नकारस्य रुत्वाद्युक्तम् । नित्त्वादाद्युदात्तत्वम् । गृणीहि । गृ शब्दे । क्रैयादिकः । शिशि प्वादीनां ह्रस्व इति ह्रस्वत्वम् । राधसा । राध्नोत्यनेनेति राधः । असुनो नित्त्वादाद्युदात्तत्वम् । उष पादादित्वादाष्टमिकनिघाताभावे षाष्ठिकमामंत्रिताद्युदात्तत्वं ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः