मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४८, ऋक् १६

संहिता

सं नो॑ रा॒या बृ॑ह॒ता वि॒श्वपे॑शसा मिमि॒क्ष्वा समिळा॑भि॒रा ।
सं द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजै॑र्वाजिनीवति ॥

पदपाठः

सम् । नः॒ । रा॒या । बृ॒ह॒ता । वि॒श्वऽपे॑शसा । मि॒मि॒क्ष्व । सम् । इळा॑भिः । आ ।
सम् । द्यु॒म्नेन॑ । वि॒श्व॒ऽतुरा॑ । उ॒षः॒ । म॒हि॒ । सम् । वाजैः॑ । वा॒जि॒नी॒ऽव॒ति॒ ॥

सायणभाष्यम्

हे उषो नोऽस्मान्राया धनेन सं मिमिक्ष्व । संसिंच । संयोजयेत्यर्थः । कीदृशेन धनेन । बृहता प्रभूतेन विश्वपेशसा । पेत इति रूपनाम । बहुविधरूपयुक्तेन । तथेळाभिरा गोभिश्चास्मान्सं मिमिक्ष्व । इळेति गोनाम । इळा जगतीति तन्नामसु पाठात् । आकारः समुच्चये पदांते वर्तमानत्वात् । उक्तं च । एतस्मिन्नेवार्थे देवेभ्यश्च पितृभ्य एत्याकारः (नि १-४) इति । किंच हे महि महनीय उषोदेवते द्युम्नेन यशसा सं मिमिक्ष्व द्युम्नं द्योततेः यशो वान्नं वेति यास्कः (नि ५-५) कीदृशेन द्युम्नेन । विश्वतुरा सर्वेषां शत्रूणां हिंसकेन । तथा हे वाजनीवति अन्नसाधनभूतक्रियायुक्ते वाजैरन्नैरस्मान्सं मिमिक्ष्व । अन्नं वै वाजः । शत । ब्रा । ९-३-४-१ । इति श्रुत्यंतरात् ॥ राया । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । बृहता । बृहन्महतोरुपसंख्यानमिति विभक्तिरुदात्ता । विश्वपेशसा । विश्वानि पेशांसि यस्यासौ विश्वपेशाः । बहुव्रीहौ विश्वं संज्ञायामिति व्यत्ययेनासंज्ञायामपि पूर्वपदांतोदात्तत्वम् । यद्वा मरुद्वृधादिर्द्रष्टव्यः । मिमिक्ष्व । मिह सेचने । व्यत्ययेनात्मनेपदम् । लोट बहुलं छंदसीति शपः श्लुः । द्विर्भावहलादिशेषौ । धत्वकत्वषत्वानि प्रत्ययस्वरस्य सतिशिष्टत्वात्स एव शिष्यते । पूर्वपदस्यासमानवाक्यस्थत्वात्तिङ्ङतिङ इति निघातो न भवति । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्या इति वचनात् । विश्वतुरा । तूर्वतीति तूः तुर्वी हिंसार्थः । क्विप्चेति क्विप् । राल्लोप इति वलोपः । विश्वेषां तूर्विश्वतूः । समासस्येत्यंतोदात्तत्वम् । वाजनीवति । वाचोऽन्नमस्या अस्तीति वाजिनी क्रिया । तादृशी क्रिया यस्याः सा तथोक्ता ॥ ५ ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः