मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४९, ऋक् १

संहिता

उषो॑ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द्रोच॒नादधि॑ ।
वह॑न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो॑ गृ॒हम् ॥

पदपाठः

उषः॑ । भ॒द्रेभिः॑ । आ । ग॒हि॒ । दि॒वः । चि॒त् । रो॒च॒नात् । अधि॑ ।
वह॑न्तु । अ॒रु॒णऽप्स॑वः । उप॑ । त्वा॒ । सो॒मिनः॑ । गृ॒हम् ॥

सायणभाष्यम्

उषो भद्रेभिरिति चतुर्ऋुचं षष्ठं सूक्तम् । अत्रानुक्रम्यते । उषश्चतुष्कमानुष्वुभं त्विति । कण्वपुत्रः । प्रस्कण्व ऋषिः । तुह्यादिपरिभाषयेदमुत्तरं चानुष्टुभम् । पूर्वत्रोषस्य त्वित्युक्तत्वादिदमपि सूक्तमुषस्यम् । प्रातरनुवाकस्योषस्ये क्रतावानुष्टुभे छंदस्येतत्सूक्तम् । सूत्र्यते हि । उषो भद्रेभिरित्यानुष्टुभम् (आ ४-१४) इति । आश्विनशस्त्रेऽप्येतत्सूक्तम् । प्रातरनुवाकन्यायेन (आ ६-५) इत्यतिदेशात् ॥

हे उष उषोदेवते भद्रेभिर्भिंदनीयैः शोभनैर्मार्गैर्दिवोऽंतरिक्ष लोकात् रोचनाद्रोचमानाद्दीप्यमानात् । अधिरुपर्यर्थः । उपरि वर्तमानात् । चिदिति पूजितार्थः । पूजितादेवंविधादंतरिक्षलोकादा गहि । अ गच्छ । हे उषः अरुणप्सवोऽरुणवर्णा गावः सोमिनः सोमयुक्तस्य यजमानस्य गृहं देवयजनरूपं यज्ञ गृहं त्वा त्वामुपवहंतु । प्रापयंतु ॥ गहि । गमेर्लोट बहुलं छंदसीति शपो लुक् । हेरपित्त्वेन ङित्तेऽनुदात्तोपदेशेत्यादिनानुनासिकलोपः । अतो हेरिति लुग्न भवति । असिद्धवदत्रा भादित्यनुनासिकलोपस्यासिद्धत्वात् । रोचनात् । रुच दीप्तौ । अनुदात्तेतश्च हलादेरिति युच् । योरनादेशे चित इत्यंतोदात्तत्वम् । अरुणप्सवः । प्सा भक्षणे । प्सांति भक्षयंति स्तनं पिबंतीति प्सवो वत्साः । औणादिकः । कुप्रत्ययः । आतो लोप इट चेत्याकारलोपः । अरुणाः प्सवो यासां तास्तथोक्ताः । अत्र वत्सानामारुण्य प्रतिपादनान्मातृणामपि तथात्वं गम्यते । पैतृकमश्वाअनुहरंते मातृकं गावोऽनुहरंते । म १-३-२१ ५ । इति गोनर्दीयः । तासां चोषोवाहनत्वम् । निघंटावुक्तम् । अरुण्यो गाव उषसामिति । अरुणशब्दोऽर्तेश्च (उ ३-६०) इत्युनन्प्रत्ययांतः । तृणाख्यायां चित् (उ ३-५९) इत्यतश्चिदित्यनुवृत्तेरंतोदात्तः । स एव बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन शिष्यते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः