मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४९, ऋक् ३

संहिता

वय॑श्चित्ते पत॒त्रिणो॑ द्वि॒पच्चतु॑ष्पदर्जुनि ।
उष॒ः प्रार॑न्नृ॒तूँरनु॑ दि॒वो अन्ते॑भ्य॒स्परि॑ ॥

पदपाठः

वयः॑ । चि॒त् । ते॒ । प॒त॒त्रिणः॑ । द्वि॒ऽपत् । चतुः॑ऽपत् । अ॒र्जु॒नि॒ ।
उषः॑ । प्र । आ॒र॒न् । ऋ॒तून् । अनु॑ । दि॒वः । अन्ते॑भ्यः । परि॑ ॥

सायणभाष्यम्

हे अर्जुनि शुभ्रवर्ण उष उषोदेवते ते तव ऋुतूꣲरनु गमनान्यनुलक्ष्य द्विपत् द्विपात् मनुष्यादिकं चतुष्पत् गवादिकं तथा पतत्रिणः पतत्रवंतः पक्षोपेता वयश्चित् पक्षिणश्च दिवोऽंतेभ्य आकाशप्रांतेभ्यः पर्युपरि प्रारन् । प्रकर्षेण गच्छंति । रात्रावंधकारेणाभिभूताः सर्वे प्राणिनस्त्वदागमानंतरं चेष्टावंतो भवंतीत्यर्थः ॥ पतत्रिणः । पत्लृगतौ । पतत्यनेनेति पतत्रम् । अमिनक्षीत्यादिना (उ १-१०५) अत्रन्प्रत्ययः । ततो मत्वर्थीय इनिः । द्विपत् । द्वौ पादावस्येति संख्यासुपूर्वस्य (पा ५-४-१४०) इति पादशब्दस्यांत्यलोपः समासांतः । अयस्मयादित्वेन भत्वात् पादः पत् (पा ६-४-१३०) इति पद् भावः । द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ (पा ६-२-१९७) इत्युत्तरपदांतोदात्तत्वम् । चतुष्पतो । चत्वारः पादा अस्य । स्वरव्यतिरिक्तं पूर्ववत् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । इणः ष इत्यनुवृत्ताविदुदुपधस्य चाप्रत्ययस्य (पा ८-३-४१) इति विसर्जनीयस्य षत्वम् । न च परत्वेनास्य विद्धत्वात् कुप्वोः कः पौ च (पा ८-३-३७) इत्युपध्मानीयादेशः शंकनीयः । येन नाप्राप्तिन्यायेन तस्यापवादत्वात् । अपवादस्तु परमपि पूर्वं बाधत एवेति वृत्तावुक्तम् । आरन् । ऋु गतौ । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङिसर्तिशास्त्यर्तिभ्यश्चेति । च्लेरङादेशः । ऋदृशोऽङि गुण इति गुणः । आडागमः । ऋतून् । ऋगतौ । अस्मादौणादिको भावे कुप्रत्ययः । अनु । अनुर्लक्षणे (पा १-४-८४) इत्यनोः कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्ते (पा २-३-८) इति द्वितीया । संहितायां दीर्घादट समानपाद इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वेति रोः पूर्वस्य वर्णस्य सानुनासिकत्वम् । दिवः । ऊडिदमिति विभक्तिरुदात्ता । अंतेभ्यः । पंचम्याः परावध्यर्थ इति विसर्जनीयस्य सत्वं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः