मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४९, ऋक् ४

संहिता

व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् ।
तां त्वामु॑षर्वसू॒यवो॑ गी॒र्भिः कण्वा॑ अहूषत ॥

पदपाठः

वि॒ऽउ॒च्छन्ती॑ । हि । र॒श्मिऽभिः॑ । विश्व॑म् । आ॒ऽभासि॑ । रो॒च॒नम् ।
ताम् । त्वाम् । उ॒षः॒ । व॒सु॒ऽयवः॑ । गीः॒ऽभिः । कण्वाः॑ । अ॒हू॒ष॒त॒ ॥

सायणभाष्यम्

हे उषो व्युच्छंती तमो वर्जयंती त्वं रश्मिभिः स्वकीयैस्तेजोभिर्विश्वं सर्वं भूतजातं रोचनं रोचमानं प्रकाशयुक्तं यथा भवति तथाभासि । आ समंतात् प्रकाशसे । हि यस्मादेवं तस्मात्तां तादृशीं त्वां वसूयवो वसुकामाः कण्वा मेधाविन ऋुत्विजः कण्वगोत्रोत्पन्ना वा महर्षयो गीर्भिः स्तुतिलक्षणैर्वचोभिरहूषत । स्तुतवंत इत्यर्थः । कण्वति मेधाविनाम । कण्व ऋभुरिति तन्नामसु पाठात् ॥ आभासि । भा दीप्तौ । अदादित्वाच्छपो लुक् । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः । हि चेति निघातप्रतिषेधः । तिङि चोदात्तवतीति गतेरनुदात्तत्वम् । रोचनम् । रुच दीप्तौ । अनुदात्तेतश्च हलादेरिति युच् । चित इत्यंतोदात्तत्वम् । वसूयवः । वसु धनमात्मन इच्छंतः । सुप आत्मनः क्यच् । अकृत्सार्वधातुकयोरिति दीर्घः । क्याच्छंदसीत्युप्रत्ययः । गीर्भिः । सावेकाच इति विभक्तेरुदात्तत्वम् । अहूषत । ह्वेञो लुङि ह्वः संप्रसारणमित्यनुवृत्तौ बहुलं छंदसीति संप्रसारणम् । परपूर्वत्वे हल इति दीर्घत्वम् । च्लेः सिच् । एकाच इतीट् प्रतिषेधः । संज्ञा पूर्वकस्य विधेरनित्यत्वाद्गुणाभावः ॥ ६ ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः