मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५०, ऋक् १

संहिता

उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥

पदपाठः

उत् । ऊं॒ इति॑ । त्यम् । जा॒तऽवे॑दसम् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ ।
दृ॒शे । विश्वा॑य । सूर्य॑म् ॥

सायणभाष्यम्

उदु त्यमिति त्रयोदशर्चं सप्तमं सूक्तं प्रस्कण्वस्यार्षं सूर्य देवत्यम् । अदौ नव गायत्र्यः शिष्टाश्चतस्रोऽनुष्टुभ इत्युक्तम् । तथा चानुक्रांतम् । उदु त्यं सप्तोना सौर्यं नवाद्या गायत्र्य इति ॥ आश्विनशस्त्रे सौर्ये क्रतावुदु त्यमित्यादयो नवर्चः शंसनीयाः । संस्थितेष्वाश्विनायेति खंडे सूत्रितम् । सूर्यो नो दिवि उदु त्यं जातवेदसमिति नव । अ ६-५ । इति ॥

केतवः प्रज्ञापकाः सूर्याश्वा यद्वा सूर्यरश्मयः सूर्यं सर्वस्य प्रेरकमादित्यमुदु वहंति । ऊर्ध्वं वहंति । उ इति पादपूरणः । उक्तं च । मिताक्षरेष्वनर्थकाः कमीमिद्विति (नि १-९) किमर्थं विश्वाय विश्वस्मै भुवनाय दृशे द्रष्टुम् । यथा सर्वे जनाः सूर्यं पश्यंति तथोर्ध्वं वहंतीत्यर्थः । कीदृशं सूर्यम् । त्यं प्रसिद्धं जातवेदसं जातानां प्राणिनां वेदितारं जातप्रज्ञं जातधनं वा देवं द्योतमानम् । अत्र निरुक्तम् । उद्वहंति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्यम् । नि १२-१५ । इति ॥ जातवेदसम् । जातानि वेत्तीति जातवेदाः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वम् । चेत्यसुन् पूर्वपदप्रकृतिस्वरत्वं च । दृशे । दृशे विख्ये च (पा ३-४-११) इति तुमर्थे निपातितः । सूर्यम् । राजसूयसूर्येत्यादिना षू प्रेरण इत्यस्मात् क्यपि रुडागमसहितो निपातितः । आतः प्रत्ययस्य पित्त्वादनुदात्तत्त्वे धातुस्वरेणाद्युदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः