मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५०, ऋक् ३

संहिता

अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ ।
भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥

पदपाठः

अदृ॑श्रम् । अ॒स्य॒ । के॒तवः॑ । वि । र॒श्मयः॑ । जना॑न् । अनु॑ ।
भ्राज॑न्तः । अ॒ग्नयः॑ । य॒था॒ ॥

सायणभाष्यम्

अस्य सूर्यस्य केतवः प्रज्ञापका रश्मयो दीप्तयो जनाननु व्यदृश्रम् । जातान्सर्वाननुक्रमेण प्रेक्षंते । सर्वं जगत्प्रकाशयंतीत्यर्थः । तत्र दृष्टांतः । भ्राजंतो दीप्यमाना अग्नयो यथा अग्नय इव ॥ अदृश्रम् । दृशिर् प्रेक्षणे । वर्तमाने लुङ् । इरितो वा (पा ३-१-५७) इति च्लेरङादेशः । रुडित्यनुवृत्तौ बहुलं छंदसि (पा ७-१-८) इति रुडागमः । अत एव बहुलवचनादृदृशोऽङि गुण इति गुणाभाव इत्युक्तम् । तिङां तिङो भवंतीति प्रथमपुरुषबहुवचनस्योत्तमपुरुषै कवचनादेशः । प्रथमपुरुषांत एव शाखांतरे श्रूयते । अदृश्यन्नस्य केतवः । अथ १३-१-१८ । इति । जनानित्यस्य नकारस्य संहितायां रुत्वयात्वादि पूर्ववत् । भ्राजंतः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यती ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः