मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५०, ऋक् ६

संहिता

येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ ।
त्वं व॑रुण॒ पश्य॑सि ॥

पदपाठः

येन॑ । पा॒व॒क॒ । चक्ष॑सा । भु॒र॒ण्यन्त॑म् । जना॑न् । अनु॑ ।
त्वम् । व॒रु॒ण॒ । पश्य॑सि ॥

सायणभाष्यम्

हे पावक सर्वस्य शोधक वरुणानिष्वनिवारक सूर्य त्वं जनान् जातान्प्राणिनो भुरण्यंतं धारयंतं पोषयंतं वेमं लोकं येन चक्षुसा प्रकाशेनानु पश्यसि अनुक्रमेण प्रकाशयसि । तं प्रकाशं स्तुम इति शेषः । यद्वा । उत्तरस्यामृचि संबंधः । तेन चक्षसा व्येषीति । तथा च यास्केनोक्तम् । तत्ते वयं स्तुम इति वाक्यशेषोऽपि वोत्तरस्या मन्वयस्तेन व्येषि । नि १२-२२ । इति ॥ भुरण्यंतम् । भुरण धारणपोषणयोः । कंड्वादित्वाद्यक् । ततः शतरि कर्तरि शप् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । वरुण । वृञ् वरणे । अस्मादंतर्भावितण्यर्थात्कृवृतृदारिभ्य उनन् (उ ३-५३) इत्युनन्प्रत्ययः । अत्र वरुणशब्देनादित्य एवोच्यते । तथा चान्यत्राम्नातम् । तस्मै मित्रश्च वरुणश्चाजायेता मिति । मित्रश्च वरुणश्च धाता चार्यमा च । तै आ १-१३-३ । इति च ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः