मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५०, ऋक् ८

संहिता

स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य ।
शो॒चिष्के॑शं विचक्षण ॥

पदपाठः

स॒प्त । त्वा॒ । ह॒रितः॑ । रथे॑ । वह॑न्ति । दे॒व॒ । सू॒र्य॒ ।
शो॒चिःऽके॑शम् । वि॒ऽच॒क्ष॒ण॒ ॥

सायणभाष्यम्

हे सूर्य देव द्योतमान विचक्षण सर्वस्य प्रकाशयितः सप्त सप्तसंख्याका हरितोऽत्वा रसहरणशीला रश्मयो वा त्वा त्वां वहंति । प्रापयंति । कीदृशम् । रथेऽवस्थितमिति शेषः । तथा शोचिष्केतम् । शोचींषि तेजांस्येव यस्मिन्केशा इव दृश्यंते स तथोक्तः । तम् । हरित इत्यादित्याश्वानां संज्ञा हरित आदित्यस्येति निघंटावुक्तत्वात् ॥ शोचिष्केशम् । शुच दीप्तौ । अर्चिशुचिहृसृपीत्यादिनेसिप्रत्ययांतोऽंतोदात्तः । स एव बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन शिष्यते । नित्यं समासेऽनुत्तरपदस्थस्येति विसर्जनीयस्य षत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः