मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५०, ऋक् १२

संहिता

शुके॑षु मे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि ।
अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥

पदपाठः

शुके॑षु । मे॒ । ह॒रि॒माण॑म् । रो॒प॒णाका॑सु । द॒ध्म॒सि॒ ।
अथो॒ इति॑ । हा॒रि॒द्र॒वेषु॑ । मे॒ । ह॒रि॒माण॒म् । नि । द॒ध्म॒सि॒ ॥

सायणभाष्यम्

मे मदीयं हरिमाणं शरीरगतं हरिद्वर्णस्य भावं शुकेषु तादृशं वर्णं कामयमानेषु पक्षिषु तथा रोपणाकासु शारिकासु पक्षिविशेषेषु दध्मसि । स्थापयामः । अथो अपि च हारिद्रवेषु हरितालद्रुमेषु तादृग्वण वत्सु मे मदियं हरिमाणं नि दध्मसि । निदधीमहि । स च हरिमा तत्रैव सुखेनास्तामस्मान्मा वाधिष्टेत्यर्थः ॥ दध्मसि । इदंतो मसिरिति मस इकारागमः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः