मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् ७

संहिता

त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते ।
तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ॥

पदपाठः

त्वे इति॑ । विश्वा॑ । तवि॑षी । स॒ध्र्य॑क् । हि॒ता । तव॑ । राधः॑ । सो॒म॒ऽपी॒थाय॑ । ह॒र्ष॒ते॒ ।
तव॑ । वज्रः॑ । चि॒कि॒ते॒ । बा॒ह्वोः । हि॒तः । वृ॒श्च । शत्रोः॑ । अव॑ । विश्वा॑नि । वृष्ण्या॑ ॥

सायणभाष्यम्

हे इंद्र त्वे त्वयि विश्वा तविषी सर्वं बलं सध्र्यक् सद्रीचीनं अपराङ्मुखं यथा भवति तथा हिता निहितम् । तथा तव राधो मनः सोमपीथाय सोमपानाय हर्षते । हृष्यति । किंच तव बाह्वोर्हस्तयोर्हितोऽवस्थितो वज्रश्चिकिते अस्माभिर्ज्ञायते । आतः शत्रो शातयितुर्वैरिणो विश्वानि सर्वाणि वृष्ण्या वृष्ण्यानि वीर्याण्यववृश्च । छेदनं कुरु ॥ सहांचतीति सध्र्यक् । अंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । समासे सहस्य सध्रिरिति सहशब्दस्य सध्र्यादेशः । चोः कुरिति कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्तेऽद्रिसध्र्योरंतोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थम् । पा ६-३-९५-१ । इति वचनात्सध्र्यादेशोऽंतोदात्तः । तस्य यणादेश उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । राधः । राध्नोति समृद्धो भवत्यनेन । राधोऽत्र मन उच्यते । असुनो नित्त्वादाद्युदात्तत्वम् । सोमपीथाय । पा पाने । पातृतुदिवचीत्यादिना थक्प्रत्ययः । घुमास्थेतीत्वम् । हर्षते । हृष तुष्टौ । श्यनि प्राप्ते व्यत्ययेन शप् । आत्मनेपदं च । चिकिते । कित ज्ञाने । छंदसि लुङ् लङ् लिट इति वर्तमाने कर्मणि लिट् । बाह्वोः । उदात्तयण इति विभक्तेरुदात्तत्वम् । वृश्च । ओव्रश्चू छेदने । तौदादिकः । ग्रहिज्यादिना संप्रसारणं विकरणस्वरः । संहितायां द्व्यजोऽतस्तिङ इति दीर्घत्वम् । वृष्ण्या । वृष सेचने । औणादिको नक्प्रत्ययः । तत्र भवानि वृष्ण्यानि । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । शेश्छंदसीति शेर्लोपः ॥ ७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०