मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् ८

संहिता

वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् ।
शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ॥

पदपाठः

वि । जा॒नी॒हि॒ । आर्या॑न् । ये । च॒ । दस्य॑वः । ब॒र्हिष्म॑ते । र॒न्ध॒य॒ । शास॑त् । अ॒व्र॒तान् ।
शाकी॑ । भ॒व॒ । यज॑मानस्य । चो॒दि॒ता । विश्वा॑ । इत् । ता । ते॒ । स॒ध॒ऽमादे॑षु । चा॒क॒न॒ ॥

सायणभाष्यम्

हे इंद्र त्वमार्यान्विदुषोऽनुष्ठातृन्वि जानीहि । विशेषेण बुध्यस्व । ये च दस्यवस्तेषामनुष्ठातृणामुपक्षपयितारः शत्रवस्तानपि वि जानीहीति शेषः । ज्ञात्वा च बर्हिष्मते बर्हिषा यज्ञेना युक्ताय यजमानायाव्रतान् । व्रतमिति कर्मनाम । कर्मविरोधिनस्तान्दस्यून् रंधय । हिसां प्रापय । यद्वा । यजमानस्य वशं गमय । रध्यतिर्वशगमने (नि ६-३२) इति यास्कः । किं कुर्वन् । शासत् । दुष्टानामनुशासनं निग्रहं कुर्वन् । अतः शाकी शक्तियुक्तस्त्वं यजमानस्य चोदिता प्रेरको भव । यज्ञविघातकानसुरांस्तिरस्कृत्य यज्ञान्यजमानैः सम्यगनुष्ठापयेति भावः । अहमपि स्तोता ते तव ता तानि पूर्वोक्तानि कर्माणि विश्वेत् सर्वाण्येव सधमादेषु सहमदनयुक्तेषु यज्ञेषु स्तोतुं चाकन । कामये । जानीहि । ज्ञा अवबॊधने । क्रैयादिकः । ज्ञाजनोर्जेति जादेशः । अत्र प्ली गतौ वृत् । धा ३१-३२ । इति वृत्करणं ल्वादिपरिसमाप्त्यर्थमेव न प्वादिपरिसमाप्त्यर्थमिति येषां दर्शनं तेषां प्वादीनां ह्रस्व इति ह्रस्वत्वेन भवितव्यम् । मैवम् । ज्ञाजनोर्जेति दीर्घोच्चारणसामर्थ्यात् । जनी प्रादुर्भाव इत्यस्य तु दीर्घोच्चारणमंतरणाप्यतो दीर्घो यञि (पा ७-३-१०१) इत्यनेनैव दीर्घः सिध्यति । तस्माद्दीर्घोच्चारणवैयर्थ्यप्रसंगादत्र ह्रस्वो न भवतीति सिद्धम् । बर्हिष्मते । तसौ मत्वर्थ इति भत्वात् रुत्वजश्त्वयोरभावः । रंधय । रध हिंसासंराध्ध्योः । शासत् । शासु अनुशिष्टौ । शतर्यदादित्वाच्छपो लुक् । जक्षित्यादयः षट् (पा ६-१-६) इत्यभ्यस्तसंज्ञायां नाभ्यस्ताच्छतुरिति नुम्प्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । शाकी । शक्लृ शक्तौ । भावे घञ् । ततो मत्वर्थीय इनिः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । वृषादिर्द्रष्टव्यः । विश्वा ता । उभयत्र शेश्छंदसीति शेर्लोपः । सधमादेषु । सह माद्यंत्येष्विति सधमादा यज्ञाः । अधिकरणे घञ्प्रत्ययः । ननु मदोऽनुपसर्ग इत्यप्प्रत्ययेन भवितव्यम् । मैवम् । व्यधजपोरनुपसर्गे (पा ३-३-६१) इत्यत्रैव मद इति वक्तव्ये यन्मदोऽनुपसर्ग इति पृथगुपादानं तद्घञपि पक्षे यथा स्यादिति न्यासकारेण प्रत्यपादीत्यस्माभिर्धातुवृत्तावुक्तम् । सधमादस्थयोश्छंदसीति सहशब्दस्य सदादेशः । चाकन । कन दीप्तिकान्तिगतिषु । अत्र कांत्यर्थः । छंदसि लुङ् लङ् लिट इति वर्तमाने लिट् । णलुत्तमो वा (पा ७-१-९१) इति णित्त्वस्य विकल्पनाद्वृद्ध्यभावः । तुजादित्वादभ्यासस्य दीर्घत्वं ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०