मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् १०

संहिता

तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ ।
आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ॥

पदपाठः

तक्ष॑त् । यत् । ते॒ । उ॒शना॑ । सह॑सा । सहः॑ । वि । रोद॑सी॒ इति॑ । म॒ज्मना॑ । बा॒ध॒ते॒ । शवः॑ ।
आ । त्वा॒ । वात॑स्य । नृ॒ऽम॒नः॒ । म॒नः॒ऽयुजः॑ । आ । पूर्य॑माणम् । अ॒व॒ह॒न् । अ॒भि । श्रवः॑ ॥

सायणभाष्यम्

हे इंद्र यद्यदोशना काव्यः सहसात्मीयेन बलेन ते सहस्त्वदीयं बलं तक्षत् तनूकृतवान् । सम्यक् तीक्ष्णमकार्षीदित्यर्थः । तदा शवस्त्वदीयं बलं मज्मना सर्वस्य शोधकेन स्वतैक्ष्ण्येन रोदसी द्यावापृथिव्यौ वि बाधते । ते बिभीत इत्यर्थः । तथा चान्यत्राम्नातम् । यस्य शुष्माद्रोदसी अभ्यसेताम् । ऋग्वे । २-१२-१ । इति । यद्वा । रॊदसी यस्माद्वृत्रादेर्बिभीतस्तं बाधत इत्यर्थः । हे नृमणो नृषु रक्षितव्येषु यजमानेष्वनुग्रहबुद्धियुक्तेंद्र आ पूर्यमाणं पूर्वोक्तेन बलेका समंतात्पूर्यमाणं त्वा त्वां मनोयुजो मनोव्यापारमात्रेण युक्ता वातस्य वायोः संबंधिनः । तद्वद्वेगेन गच्छंत इत्यर्थः । एवंभूता अश्वाः श्रवोऽभि हविर्लक्षणमन्नमभिलक्ष्यावहन् । अभिमुख्येन प्रापयंतु ॥ तक्षत् । तक्षू त्वक्षू तनूकरणे । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । उशना । वश कांतौ । वशे कनसिः (उ ४-२३८) इति कनस् । ग्रहिज्येत्यादिना संप्रसारणम् । ऋदुशनस्पुरुदंशोऽनेहसां च (पा ७-१-९४) इत्यनङादेशः । सर्वनामस्थाने च (पा ६-४-८) इत्युपधादीर्घत्वम् । हल्ङ्यादिनलोपौ मज्माना । टुमस्जो शुद्धौ । औणादिको मनिप्रत्ययः । नृमणः । छंदस्यृदवग्रहादिति णत्वम् । अवहन् । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लङ् ॥ १० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०