मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् ११

संहिता

मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति ।
उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ॥

पदपाठः

मन्दि॑ष्ट । यत् । उ॒शने॑ । का॒व्ये । सचा॑ । इन्द्रः॑ । व॒ङ्कू इति॑ । व॒ङ्कु॒ऽतरा । अधि॑ । ति॒ष्ठ॒ति॒ ।
उ॒ग्रः । य॒यिम् । निः । अ॒पः । स्रोत॑सा । अ॒सृ॒ज॒त् । वि । शुष्ण॑स्य । दृं॒हि॒ताः । ऐ॒र॒य॒त् । पुरः॑ ॥

सायणभाष्यम्

यद्यदेंद्र उशने कामयमाने काव्ये सचा सह मंदिष्ट स्तुतोऽभूत् तदानीं वंकू वंकुतराशिशयेन कुटिलं गच्छंतावश्वावधितिष्ठति । रथे संयोज्य तमारोहतीत्यर्थः । यद्वा वंकुतरातिशयेन वक्रं गच्छति रथे वंकू वक्रगमन शीलावश्वौ संयोज्येति योजनीयम् । उग्र उद्गूर्णस्तादृश इंद्रो ययिं गमनयुक्तान्मेघात् स्रोतसा प्रवाहरूपेणापो निरसृजत् । जलानि निरगमयत् । तथा शुष्णस्य सर्वस्य शोषयितुरसुरस्य दृंहिताः प्रवृद्धाः । पुरो नगराणि निवासस्थानानि व्यैरयत् । विविधं प्रेरितवान् ॥ मंदिष्ट । मदि स्तुतिमोदमदस्वप्न कांतिगतिषु । लुङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । उशने । वशेरौणादिकः क्युप्रत्ययः । ग्रहिज्यादिना संप्रसारणम् । योरनादेशः । सचा । षच समवाये । संपदादिलक्षणो भावे क्विप् । आङ् याजयारां चोपसंख्यानम् । म ७-१-३९-१ । इति तस्य सानुनासिकत्वम् । वंकू । वंचु गतौ । औणादिक उप्रत्ययः । बहुलवचनात्कुत्वम् । वंकुतरा । अतिशयेन वंकू वंकुतरा । सुपां सुलुगिति विभक्तेराकारः । अत्र गतिसामान्यवाचिना गतिविशेषो लक्ष्यते ययिम् । या प्रापणे । आदृगमहनजन इति किप्रत्ययः । सुपां सुपो भवंतीति लिड्वद्भावात् द्विर्वचनह्रस्वत्वे । आतो लोप इट चेत्याकार लोपः । प्रत्ययस्वरः । पंचम्या अमादेशः । दृंहिताः । दृहि वृद्धौ । इदित्त्वान्नुम् । ऐरयत् । ईर प्रेरणे । चौरादिकः । लङ्याडागमः । आटश्च (पा ६-१-९०) इति वृद्धिः ॥ ११ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११