मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् १२

संहिता

आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से ।
इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥

पदपाठः

आ । स्म॒ । रथ॑म् । वृ॒ष॒ऽपाने॑षु । ति॒ष्ठ॒सि॒ । शा॒र्या॒तस्य॑ । प्रऽभृ॑ताः । येषु॑ । मन्द॑से ।
इन्द्र॑ । यथा॑ । सु॒तऽसो॑मेषु । चा॒कनः॑ । अ॒न॒र्वाण॑म् । श्लोक॑म् । आ । रो॒ह॒से॒ । दि॒वि ॥

सायणभाष्यम्

अत्र कौषीतकिन इतिहासमाचक्षते । शार्यातनाम्नो राजर्षेर्यज्ञे भृगुगो त्रोत्पन्नश्च्यवनो महिर्षिराश्विनं ग्रहमगृह्णात् । इंद्रस्तं दृष्ट्वा क्रुद्धोऽभूत् । तमिंद्रमनुनीय पुनः सोमं तस्मै प्रादादिति । आयमर्थोऽस्यां प्रतिपाद्यते ॥ हे इंद्र त्वं वृषपाणेषु । वृष्णः सेचनसमर्थस्य सोमस्य पानानि वृषपाणानि । तेषु निमित्तभूतेषु रथमातिष्ठसि स्म । स्वयमेव रथमारुह्य गच्छसि । न त्वन्यः । कश्चित्प्रवर्तयितेति भावः । एवं च सति येषु सोमेषु त्वं मंदसे हर्षं प्राप्नोषि तादृताः सोमाः शार्यातस्मैतन्नाम्नो राजर्षेः संबंधिनः प्रभृताः । प्रकर्षेण संपादिताः । आभिषवादिसंस्कारैः संस्कृता इत्यर्थः । अतः सुतसोमेष्वभिषुतसोमयुक्तेष्वन्यदीयेषु यज्ञेषु यथा चाकनः यथा कामयसे एवमस्यापि शार्यातस्य सोमान्कामयस्व । तथा सति दिवि द्युलोकेऽनर्वाणं गमनरहितं स्थिरं श्लोकं स्तोत्रलक्षणं वचो यशो वा आ रोहसे । प्राप्नोषि । यद्वा । इमं यजमानं दिवि द्युलोक उक्तलक्षणं यशः प्रापयसि ॥ स्म । निपातस्य चेति दीर्घत्वम् । वृषपाणेषु । पा पाने । भावे ल्युट् । वा भावकरणयोः (पा ८-४-१०) इति पूर्वपदस्थान्निमित्तादुत्तरस्य पानशब्दनकारस्य णत्वम् । प्रभृताः । भृञ् भरणे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । मंदसे । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । चाकनः । कन दीप्तिकांतिगतिषु । अत्र कांत्यर्थः । कांतिश्चाभिलाषः । लेट सिप्यडागमः । बहुलं छंदसीति शपः श्लुः । तुजादित्वादभ्यासस्य दीर्घत्वम् । सर्वे विधयश्छंदसि विकल्प्यंत इत्यभ्यस्तस्याद्युदात्तत्वाभावे धातोरिति धात्वंतस्योदात्तत्वम् । अनवार्णम् । अर्तेरन्येभ्योऽपि दृश्यंत इति दृशिग्रहणाद्भावे वनिप् । न ञा बहुव्रीहावम्यर्वणस्त्रसावनञ इति पर्युदासात्तृ आदेशाभावे सर्वनामस्थाने चेत्युपधादीर्घत्वम् । नञ् सुभ्यामित्युत्तर पदांतोदात्तत्वम् । श्लोकम् । श्लोकृ संघाते । श्लोक्यत इति श्लोकः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । रोहसे । रुहेर्व्यत्ययेनात्पनेपदं ॥ १२ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११