मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५१, ऋक् १४

संहिता

इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ ।
अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ॥

पदपाठः

इन्द्रः॑ । अ॒श्रा॒यि॒ । सु॒ऽध्यः॑ । नि॒रे॒के । प॒ज्रेषु॑ । स्तोमः॑ । दुर्यः॑ । न । यूपः॑ ।
अ॒श्व॒ऽयुः । ग॒व्युः । र॒थ॒ऽयुः । व॒सु॒ऽयुः । इन्द्रः॑ । इत् । रा॒यः । क्ष॒य॒ति॒ । प्र॒ऽय॒न्ता ॥

सायणभाष्यम्

इंद्रो देवः सुध्यः शोभनकर्मणो यजमानान् शोभनप्रज्ञान्वा निरेके नैर्धन्ये निमित्तभूते सति तान्रक्षितुमश्रायि । असेविष्ट । पज्रेषु । पज्रा इत्यंगिरसामाख्या । तथा च शाट्यायनिभिराम्नातम् । पज्रा वा अंगिरसः पशुकामास्तपोऽतप्यंतेति । येषु यजमानेष्वंगिरःसु स्तोमः स्तोत्रं निश्चलं तिष्ठति दुर्यो न यूपो द्वारि निखाता स्थूणेव । तान्सुध्य इति पूर्वेणान्वयः । तस्मादिदानीमपि रायः प्रयंता धनस्य प्रदातेंद्र इत् इंद्र एव यजमानानां दातुमश्वयुरश्वानिच्छन् तथा गव्युर्गा इच्छन् रथयू रथानिच्छन् वसूयुरेवमन्यदपि यद्धनमस्ति तदपीच्छन् क्षयति वर्तते ॥ अश्रायि । श्रिञ् सेवायाम् । कर्तरि लुङि व्यत्ययेन च्लेश्चिणादेशः । सुध्यः । धीरिति कर्मनाम । शोभना धीर्येषाम् । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । शसि छंदस्युभयथा (पा ६-४-८६) इति यणादेशः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । निरेके । नितरां रेचनं निरेकः । रिचिर् विरेचने । भावे घञ् । थाथादिनोत्तरपदांतोदात्तत्वम् । दुर्यः । दुरे भवो दुर्यः । भवे घंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । यूपः । यु मिश्रणे । यूयते युज्यतेऽस्मिन्नितियूपः । कुयुभ्यां च (उ ३-२७) इति पप्रत्ययः । दीर्घ इत्यनुवृत्तेदीर्घत्वम् । अश्वयुः । यजमानेभ्योऽश्वानिच्छन् । छंदसि परेच्छायाम् । का ३-१-८-२ । इति क्यच् । न छंदस्यपुत्रस्येतीत्वदीर्घयोर्निषेधः । अश्वाघस्यादित्यात्वं तु छांदसत्वान्न भवति । क्याच्छंदसीत्युप्रत्ययः । एवमुत्तरत्रापि । एशावांस्तु विशेषः । गव्युरित्यत्र वांतो यि प्रत्यय इत्यवादेशः । यास्कस्त्वेवं व्याचष्टे । इदंयुरिदं कामयमानोऽथापि तद्वदथे भाष्यते । वसूयुरिंद्रो वसुमानित्यर्थः । आश्वयुर्गव्यू रथयुर्वसूयुरित्यपि निगमो भवति (नि ६-३१) इति । क्षयति । क्षि क्षये । भौवादिकः । प्रयंता । यम उपरमे । तृच्येकाच इतीट् प्रतिषेधः । चित इत्यंतोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११